________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥३५४॥
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
दिणेहिं दोण्णि सहस्सा पूरिति जो भोजयतीति । बन्धानुलोम्याद्भोजये। नितिये 'त्ति दिणे दिणे। णेकंतियं वा णितियं | एगे अणेगे वा भोजावेति सदक्षिणे वा जपे य पौण्डरीकादी वा यज्ञं यजते । तत्फलप्रसिद्धये त्वपदिश्यते । ते पुण्णखधं सुमहऽज्जिणित्ता' ते इति ते प्रागुपदिष्टाः द्रव्योपधानशुद्धैर्दानैः स्नातकब्राह्मणपूजयितारः । पुनातीति | | पुण्यम् । स्कन्धग्रहणात् सुमहत्पुण्योपचयं सम्यगुपार्जयित्वा । परत्र ब्रह्मेन्द्रप्रजापतिविष्णुलक्षादिषु देवा भवन्तीति | प्रदर्शनार्थः । यथा तावत्परसमये क्रियावद् गुणवद् समवायिकारणमिति द्रव्यलक्षणं, समयेऽपि इच्चेतेहि छहिं। जीवनिकाएहिं । वेदानां वादो वेदवादो । वेद एव हि परं प्रमाणं, आह हि-'वेदा प्रमाणं ।' ( ) एवं त्रयी वर्तमानमाश्रीत्य, राज्यं गत्वा राज्याभिषेकं प्राप्य इष्टेभ्य स्नातकेभ्यः ब्राह्मणेभ्यः गोहिरण्यादीनि दानान्यजस्रं प्रयच्छस्व, आह च-'यान् यान् कामान् ब्राह्मणेभ्यो ददाति तांस्तान् कामान् यजान उपभुङ्क्ते।' यज्ञांश्च भूहिरण्यदक्षिणां यजस्व, आह च-'जइत्ता विउले जण्णे०।'( ) तदेवं श्रेयः समवाप्स्यति । तत्कथं ? यदा ह्येतानि यथोद्दिष्टानि धर्मसाधनानि अभ्युदयिकं धर्ममुद्दिश्य करोति तदा स्वर्गमवाप्नोति, यदा त्वपवर्गमुद्दिश्य धर्मसाधनेषु वर्त्तते तदा अपवर्गमवाप्नोति । तदेवं स्वर्गापवर्गफलं वेदानां धर्मं प्रतिपद्यस्व। किं तै®नैः संयमपुरस्सरैस्तपोभिः अपार्थकैराचीर्णैः ?
॥३५४॥