________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥३५२ ॥
प्राप्नोति, श्लाघामित्यर्थः। यस्तु अबुद्धोऽशीलगुणोपपेतः पचनपाचनाद्यारम्भप्रवृत्तः साताबहुलस्नानादिशरीरसंस्कारग्रामादिपरिग्रहं वा प्रियाप्रियप्राप्ती असमाधियुक्तः इहैव निन्द्यो भवति, यथा 'ग्रामक्षेत्रगृहादीनां ।' (
द्वितीय
श्रुतस्कन्धे तथाऽऽहुः-'यथाऽपरे सङ्कथिका०।'( ) भावबुद्धस्तु तच्छिष्याश्च श्लाघ्या भवन्ति नैवास्ति राजराजस्य
षष्ठ| तत्सु०।' (प्रशमरतिः १२८) स एवं तान् शाक्यान् सप्रपञ्चं निहत्य भगवन्तमेव प्रतिपत्तिमान् ऊर्ध्व ज्वलद्भि- मध्ययनम् धिग्जातिभिः परिवार्यापदिश्यते-भो भो आर्द्रक राजपुत्र ! मा तावद्गच्छ। इदं तावदस्माकं वेदसिद्धं शृणु, तद्यथा
आदिसर्गे किल विष्णोर्नाभ्यां समुत्पन्नं पद्मं वै केसराकुलं । तस्मिन् ब्रह्मा समुत्पन्नस्तेन सृष्टमिदं जगत् । स मुखतो | ब्रह्मणोऽसृजत् । ततः शूद्रांस्त्रिवर्गपरिचारकान् । क्षत्रियांस्तु एकमेव वर्णं परिचरन्ति । तत एव च श्रेयोऽवाप्नुवन्ति, यस्माच्चैवं तस्माद् ब्रह्मोत्तरं जगत् । तदेवं त्रयाणामपि वर्णानां ब्राह्मणा एव पूज्यतमाः, आह च-'ब्राह्मण एव । जायते।'( ) ते च द्रव्यक्षेत्रकालभावोपधानशुद्धेन दानेन पूजनीयाः । तत्र द्रव्योपधानशुद्धेन गोहिरण्यसुवर्णधनादीनि देयानि । क्षेत्रशुद्धमपि स्वगृहाभ्यागतस्यानाविष्कृतक्रियस्य सुखासनासीनस्य । अथवा क्षेत्रशुद्धं पुष्करादिषु या क्षेत्रेषु दीयते क्षेत्रमिदं विख्यातम् । कालशुद्धमपि दर्शपूर्णिमाऽमावास्यासु, तथा अन्येषु च सर्वेषु पर्वस्विति, तथा