________________
श्रीसूत्रकृताङ्ग
द्वितीय
चूर्णिः
श्रुतस्कन्धे
॥३३७॥
षष्ठमध्ययनम्
अण्णो पुण पाणव,पि करेंतो पयंतो पाणे कुशलेन चित्तेन मुच्चति पाणातिपातातो, तत्र ब्रूमः
(मू०) अजोगरूवं इह संजयाणं, पावं तु पाणाण पसज्झ काउं।
अबोहिए दोण्ह वि तं असाहु, वयंति जे यावि पडिस्सुणंति ॥३०॥(सूत्र ८१७) (चू०) अयोग्यरूपम् । इह न योग्यमयोग्यं । रूपमिति स्वभावेत्युच्यते । यथा कश्चित्केनचित् रोषितः प्रत्यपकारचिकीर्षुरन्तर्गतं भावमावि:कुर्वन् भ्रूकुटिं करोति रूक्षां खरां वा दृष्टिं निपातयति, उक्तं हि-'रुट्ठस्स खरा | दिट्ठी०।'( ) गाधा । एवं स्वभावे रूपशब्दं निवेश्य उच्यते अयोग्यरूपं क्रूरस्वभावमित्यर्थः । शिरस्तुण्डमुण्डनं कृत्वा प्रव्रजितोऽहमिति लिङ्गानुरूपां चेष्टां युज्यते, आह हि - 'वयं सकर्मणोऽर्थस्य० ।'( ) तेनोच्यतेअयोग्यमेतत् प्रव्रजितरूपस्य अहिंसार्थमुत्थितस्येहेति इहास्माकं प्रवचने । अहिंसार्थकं हस्त्यादिसंयतानां वा पावं तु । तुर्विशेषणे हिंसैव सर्वपापेभ्यः पापीयसी । प्राणाः पृथिव्यादयः । प्रसह्येति क्रौर्याद्वलादाक्रम्य । तुब्भेवि य प्रव्रजिताः शिरस्तुण्डमुण्डनं कृत्वा कषायवासस: स्त्रीवेषधारिणः संयता वयमिति सम्प्रतिपन्नाः । तेण तुब्भेवि अयोग्यरूपं पापं हिंसादिबला: जे तुब्भे संपडिवज्जह, मणुसादी प्रसह्य असमीक्ष्य । कथं वयं प्राणिनो मारयामः
॥३३७॥