________________
श्रीसूत्रकृताङ्ग
चूर्णि:
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
॥३२० ।।
जीवं प्रति सद्भूतोऽन्यो मूर्तोऽस्त्यात्मेति । यस्य पुनर्वादिनः नास्त्यात्मा तस्य जातिस्मरणादीनि न विद्यन्ते, दानदमाध्ययनक्रियाश्च न युक्ताः, न तु ब्रूमः शाक्या अन्ये वा नास्तिकवादिनः । हे मूर्खा ! यद्यात्मा नास्ति तेनाऽसौ शुद्धोदनपुत्रो वृद्धो नास्ति, वक्तृवचनवाच्याविशेषात्कि केन कस्मै वोपदिष्टमिति । ननु मत्तोन्मत्तप्रलापः । एवमन्यत्रापि | प्रवादिष्वायोज्यं । इत्येवं दृष्टिं गरहामो, न तु किञ्चिद्वादिनां संमुखं ब्रूमोऽधिकमास्व । मूर्खदृष्टिमिथ्यादृष्टिर्वेति एवं | स्वदृष्टौ प्रादुःक्रियमाणायां तिण्णि तिसट्ठाई दिट्ठिसताई परूविज्जति । मिच्छत्तं ति काउं तेसु दिट्ठी न कायव्वा। स्यात् किं तत्प्रादुःक्रियते ? 'मग्गे इमे किट्टिते आरिएहिं' सम्यग्दर्शनादिमार्गः कीर्तितः आख्यातः णाणारियादीहिं । नास्योत्तरोऽन्यो मार्गो विद्यते शोभनपुरुषसर्वज्ञत्वात्तथाकारित्वाच्च अंजू कडुज्जओ न पूर्वापरव्याहतः शाक्यस्येव, यथा ज्ञानमुत्पन्नं, आर्द्रकं च राजपुत्रं मृतं न ज्ञातवान् ।।१३।।
स्यादेवं किं निष्ठुरं स्पष्टं नाभिधीयते, त्वं मूर्यो वा कुदृष्टिर्वेति? तदुच्यते, मा भूत्तस्य मानसं दुःखं स्यात्कि वा निष्ठुरमुच्यमानस्य मनोदुःखाच्छारीरमपि स्याद् हृदयरोगादि । तेण
॥३२०॥