SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग चूर्णि: ॥३१९ ॥ द्वितीयश्रुतस्कन्धे षष्ठमध्ययनम् यथा त्वं पापदृष्टिः मिथ्यादृष्टिः मूढो मूर्खः अजानको वेति ।।१२।। (मू०) ण किंचि रूवेणऽभिधारयामो, सं दिट्रिमग्गं तु करेमो पाउं । मग्गे इमे किट्टिते आरिएहि, अणुत्तरे सप्पुरिसेहिं अंजू ॥१३॥(सूत्र ८००) (चू०) किञ्चिद्रूपेन रूवमिति यथा लोको लोकं कस्मिंश्चिदपराधे आक्रोशति काणः कुब्जः कोढी वेति । जात्या वेति चण्डालकर्म करोति । नैवं किञ्चिद्रूपेण त्रिदण्डिक दुष्ट परिव्राजक! इदं ते दुर्दृष्टं शासनं, तेन मूर्खकपिलेन | किं दृष्टं येन कर्ता क्षेत्रज्ञः, घटं च करोमीत्यसंधिं करोति । कुम्भकारोऽकुर्वन् कथं कुम्भकारः । कुर्वन् कुम्भकारो भवति । एवं न बमो। वीतरागोपदेशाद्येषामेषा दृष्टिरकर्त्तात्मा निर्लेपश्च तेषां घटं साधयामीति मृत्पिण्डदण्डाद्युपादानक्रियैव न युज्यते । निर्लेपस्य च शौचक्रिया वा किं क्रियते? कथं चास्य केवलज्ञानं नोत्पद्यते शुद्धस्य ? यतः शाक्या अपि नो रूपतः प्रत्यक्षमित्यर्थः । हे कषायकण्ठ शाक्याक शाक्यपुत्र कथमिदं ते दृष्टं सुखमस्ति चेन्न च सुखी तधा स्कन्धाः । न च किलिस्सतां । किञ्च स्यात् येषामेषा दृष्टिः सुखमस्ति चेन च सुखी, त एव दोषाः अभिमुखं धारयामो अभिधारयामः, वाचं बेमीत्यर्थः, किन्तु स्वां दृष्टिं सं दि४ि करेमो कुर्मः प्रादुः प्रकाशमित्यर्थः, तद्यथा ॥३१९॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy