________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥३१८॥
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
'प्राप्तानामुपभोग' इति वचनात् । एवं वाचः प्रादुःकुर्वन्ति । प्रवदनशीलाः प्रावादुकाः । तान् गरहसि आत्मोत्सेकेन । न चोत्सेकः शिवाय । आर्द्रक आह-ननु पावादिनोऽपि पुढो, तेवि हि पावादिया पुढोत्ति आत्मीयं पक्षं कीर्तयन्तो वर्णयन्तः स्वां स्वां दृष्टिं कुर्वन्ति-करेंति प्रादुः प्रकाशयन्तीति ।।११।।
(मू) ते अण्णमण्णस्स वि गरहमाणा, अक्खंति उ समणा माहणा य ।
सतो य अत्थी असतो य णत्थी, गरहामो दिटुिंण गरहामो किंचि ॥१२॥(सूत्र ७९९) (चू०) 'अण्णमण्णस्स तु ते (ते अण्णमण्णस्स वि) ०।' इति प्रागुपदिष्टाः प्रावादुकाः अन्यश्चान्यश्च अण्णमण्णं अण्णमण्णस्स विविधं विशिष्टं वा गरहमाणाः कुदृष्टिमाचरंति । वाक्याध्याहारः आख्यान्ति परशास्त्रदोषांश्च आवि:कुर्वते । श्रमणाश्च ब्राह्मणाश्च किमाख्यान्ति । 'सतो य अस्थि असतो य०' स्वमात्मीयप्रवचनमित्यर्थः । तस्मात् स्वतः श्रेयोऽस्ति निर्वाणमित्यर्थः । परस्मात्परतः अन्यस्मात्प्रवचनादित्यर्थः नास्तीति नास्ति निःश्रेयसं वा निर्वाणमित्यर्थः । एवं ते सर्वे अहमिति व्यवस्थिताः स्वपक्षसिद्धिमिच्छन्ति परपक्षस्य चासिद्धि, उक्तञ्च-'जहिं जस्स जं ववसितं० ।'( ) वयमपि स्वपक्षमेवावलम्ब्यापरां शाक्यां दृष्टिं गरहामः । तान् न तु किंचि गरहामो
॥३१८ ॥