________________
श्रीसूत्रकृताङ्ग चूर्णि : ॥ ३११ ॥
तद्यस्मादिदं साम्प्रतीयं वृत्तं पौराणं च दोऽवि अण्णोऽण्णं ण समेन्ति न तुल्ये भवत इत्यर्थः, तस्मादसौ पूर्वापरव्याहतवादी कारी च नाभिगमनीयोऽस्ति । एवं गोशालेनोक्तो भगवानार्द्रकः प्रत्येकबुद्धः तद्वाक्यमवज्ञायेव प्रहस्यैवं आह च-भो गोशाल ! स हि भगवान् वर्द्धमानः ''पुव्वि वा पच्छा वा' 'पुव्वि' छउमत्थकाले 'पच्छत्ति णाणे समुप्पण्णे 'अणागतं ' जावज्जीवाए तेसु तेसु वि कालेसु भगवान् 'एगंतमेव पडिसंधा (य) ती 'ति वक्तव्ये ग्रन्थानुलोम्यात्सुखमुखोच्चारणाद्वृत्तबन्धानुवृत्तेश्च प (डि) संधयाति ||३||
स्यात्किमर्थं कथयति ? -
(मू० ) समेच्च लोगं तस - थावराणं, खेमंकरे समणे माहणे वा ।
आइक्खमाणो वि सहस्समज्झे, एगंतयं सारयति तहच्चे ॥४॥ ( सूत्र ७९१ ) (चू० ) ' समेच्च लोगं० ।' सम्यक् ज्ञात्वेत्यर्थः । तसाणं थावराणं जीवाणं खेमं सयं करेति, अवधमित्यर्थः, अण्णेवि जीवे अण्णेसिं च जीवाणं खेमं काउकामो कधेति । समणेत्ति वा माहणेत्ति वा एगमट्ठे । स एवं १. पुव्वि च इण्हि च-मूले।
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
॥ ३११ ॥