________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥३१०॥
द्वितीयश्रुतस्कन्धे
षष्ठमध्ययनम्
सदेवमणुआसुराए परिसाए परिवुडो । जनाय हितं जन्यं बहुजनाय बहुजन्यं तं चार्थं कथयति, न सूत्रं । 'ण' - संधायति'त्ति न संधिति, अवरं णाम जेनिमंतं साम्प्रतीयं वृत्तं-रत्नशिलापट्टः सिंहासनं छत्रं चामरं । अधवा'अशोकवृक्षः सरपुष्पवृष्टि-दिव्यो ध्वनिश्शामरमासनं च । भामण्डलं दन्दभिरातपत्रं, सत्प्रातिहाय जिनेश्वराणाम्' ( ) अनेन देवेन्द्रदुर्लभेनापि विभूतिवृत्तेन यत्पूर्वं वृत्तं एगंतचारित्तं तदन्योऽन्यव्याघातान्न | सं(धे)ति ॥२॥ किंच
(मू०) एगंतमेव अदुवा वि इण्हि, दो वऽण्णमण्णं न समेंति जम्हा ।
पुट्विं च इण्हि च अणागतं वा, एगंतमेव पडिसंधयाति ॥३॥ (सूत्र ७९०) (घू०) 'एगंतमेव अदुवावि एहि ।' यदि एकान्तचारित्वं शोभनमेतदेवात्यन्तं कर्त्तव्यमभविष्यत्, उत मन्यसे इदं महापरिवारवृत्तं साधु तदिदमादावेवाचरणीयमासीत्, तो किं बारसमधियाई वरिसाई किलेसितो? १. संधयाति-मूले । २. इणिह-मूले ।
३१०॥