________________
श्रीसूत्रकृताङ्ग
चूर्णि: ॥ २८१॥
द्वितीयश्रुतस्कन्धे पञ्चममध्ययनम्
हि-'जले तिष्ठति।'( ) आह अस्तु तावत्तन्तुपटवदभिन्नदेशः कार्यकारणसम्बन्धः कार्मकऔदारिककाययोः, | तत्किमेकत्वमनयोरुतान्यत्वं इति? उच्यते, सदसत्कार्यत्वात् घटवदेतत्स्यात्, उक्तं च-'णत्थि पुढवीसिट्ठो घडो०।'
(विशेषावश्यकभाष्यम् २१०४) त्ति । एवं न कार्मकशरीरं प्रत्याख्यायौदारिकं भवतीति एकत्वं सिद्धमनयोः । । सूक्ष्मस्थूरमूर्तिमत्त्वाचाक्षुषत्वान्निरुपभोगसोपभोगत्वाच्च सुष्ठ अन्यत्वमित्येवं सदसत्कार्मकौदारिकयोरेकत्वान्यत्वं प्रति ।
भजना, वैक्रियाहारकयोरपि । तैजसमपि कम्मकातो णिप्फज्जति । तत्थवि भजना इच्चेवं एकान्तेन तु एकत्वमन्यत्वं वा ब्रुवतो वागनाचारो भवति, तेण 'एतेहिं (दोहिं) ठाणेहिं० ।'
पच्छिमद्धसिलोएण बितिज्जिया पुच्छा 'सव्वत्थ वीरियं अत्थि०।' यथा कार्यकारणयोर्वक्तव्यावक्तव्यतोक्ता एवं कर्तृकर्तव्ययोरपि। किमेतत् सर्वं? सर्वकार्ये किं कर्तुः सामर्थ्यमस्ति उत नास्तीति पृच्छा ? उच्यते, शिक्षार्थपूर्वमशिक्षापूर्वकं च केषु(चित्) कर्तुः सामर्थ्यमस्ति केचिन्नास्ति । तत्र शिक्षापूर्वकं घटादिष्वस्ति सामर्थ्य अशिक्षापूर्वकं गमनादानभोजनाद्यासु क्रियासु । न चैवं सामर्थ्यमस्ति, उक्तं हि-'छहिं ठाणेहिं जीवस्स नत्थि उढाणेइ वा०।' ( )॥१०॥ ॥११॥
॥ २८१ ॥