________________
श्रीसूत्रकृताङ्ग
चूर्णिः ॥ २८० ॥
(मू०) जमिदं उरालमाहारं, कम्मगं च तमेव य ।
द्वितीयसव्वत्थ वीरियं अत्थि, णत्थि सव्वत्थ वीरियं ॥१०॥(सूत्र ७६४)
श्रुतस्कन्धे (मू०) एतेहिं दोहिं ठाणेहिं, ववहारो ण विज्जती।
पञ्चमएतेहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥११॥ (सूत्र ७६५)
मध्ययनम् (चू०)'जमिदं ओरालम्।' इति । यत् इति अनिर्दिष्टस्य निर्देशः । इदमिति सर्व्वलोके प्रत्यक्षं, आहारकमपि केषाञ्चित्प्रत्यक्षमेव, वैक्रियमपि प्रत्यक्षमेव, तैजसकार्मणे प्रत्यक्षज्ञानिनां प्रत्यक्षे, एकस्मिश्चौदारिके साधिते शेषाण्यपि साधितानि भविष्यन्ति । शिष्यः पृच्छति एतदौदारिकं शरीरं कामं कार्मकशरीरान्निष्पन्नं तत्किमनयोरेकत्वमुताहो । अन्यत्वं? कुतः संशय इति चेत् ? उभयथा दृष्टत्वात्कार्यकारणयोरिह तन्तुपटयोरयुगपत्सिद्धिदृष्टा, तन्तव एव कारणान्तरतः अभिन्नदेशं पटं निवर्तयन्ति, आदर्श त्वादर्शादृश्यसंयोगा सदृशच्छायोपलब्धे सति कार्यकारणयोः सम्बन्धे भिन्नदेशता दृष्टा इत्यतो नः संशयः, कि कार्मकशरीरमौदारिकं भिन्नदेशमारभते प्रतिबिम्बवत् उताभिन्नदेशं स्वा॥२८०॥ | तन्तुपटवदिति ? तत उच्यते, एकाश्रयत्वान्न प्रतिबिम्बवद्भिनदेशं, [तन्तुसमुदैनौर्वा] तन्तुसमुहै: पटवत् स्याद्, उक्तं