________________
श्रीसूत्रकृताङ्गचूर्णि:
।। २८२ ।।
लोगं वा अलोगं वा एवमवचनीयवादः प्रसक्त इति कृत्वा साम्प्रतमपवादः क्रियते। न सर्वत्रावचनीयवादो भवति,
तं जधा
(मू० ) णत्थि लोए अलोए वा, णेवं सण्णं निवेसए ।
अथ लोए अलोए वा, एवं सण्णं निवेस ॥१२ ॥ ( सूत्र ७६६ )
(चू० ) ' णत्थि लोए अलोए वा० ।' प्रत्यक्ष एव दृश्यते जीवाजीवसमुदायो लोकः । स कथं नास्तीति संज्ञा हृदि निवेश [ इति ] (येत्) व्यवहारो वा वक्तव्यो । यच्चास्ति लोक इति लोकविरुद्धं चैवं प्रतिषेधश्च । कथं प्रतिषेधकोऽस्ति अप्रतिषेध्यो लोको नास्ति ? स हि लोकान्तर्गतो वा न वा ? यदि लोकान्तर्गतो यथा भवानस्ति किमेवं लोको न भविष्यति ? उत लोकबहिर्भूतो वा ? ननु लोकस्यास्तित्वं सिद्धं यस्य भवान् बहिर्वर्त्तते, वक्तृवचनवाच्यविशेषाच्च न कश्चित् प्रतिषेधयति लोकास्तित्वम् अलोकस्यापि सुखदुःखशीतोष्णजीवितमरणछायातपवत् द्वन्द्वसिद्धिस्तस्मान्नैवं सञ्ज्ञा मनसि निवेशयेत् । किन्तु 'अत्थि लोए अलोए वा० ।' अत्रापि भजनीयं अस्ति सद्भावे, अदिट्ठो लोकः, अत्थि वा सद्भावा, दिट्ठो णत्थि, तहावि लोकविरुद्धमितिकृत्वा भजनावादो नोच्यते ॥१२॥
द्वितीयश्रुतस्कन्धे
पञ्चममध्ययनम्
।। २८२ ।।