SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गचूर्णि: ।। २६४ ।। सञ्ज्ञिनः पूर्वम्, तत्प्रतिपक्षात्तु पुनः प्रतिषेधः क्रियते न संज्ञी । तत्र सञ्ज्ञिनामसञ्ज्ञिनां वाऽऽख्यायते इतरेषु निवृत्ताः कथा: । तेन सञ्ज्ञिनः आदावभिधीयन्ते । यत्रापि त्रसथावरा तत्रापि सुरासुरवद्व्यपदेशादेवं क्रमो भवति, जहा जागरमाणो पुरिसो स्वपिति निद्रोदयात् निद्राक्षयाच्च पुनः प्रतिबुध्यते प्रतिबुद्धश्च पुनः स्वपिति । एवं सञ्ज्ञित्वं | जीवानां नैमित्तिकं न नैसग्गिकमिति बोद्धव्यम् । यस्माच्चैषां कायानां न निसर्गोऽस्ति सञ्ज्ञित्वमसञ्ज्ञित्वं वा तस्मादन्योऽन्यसङ्क्रमत्वमविरुद्धं । अविरुद्धे च तस्मिन् गतिप्रत्यागतिलक्षणं युक्तं, यतोऽपदिश्यते होज्ज सण्णी अदुवा असण्णी । तत्थ ते अवि (वि) चिया 'विचिर् पृथग्भावे' (पा.धा. रुधादि ५) अविविच्य विविच्य ज्ञानावरणीयादिकर्म्म पृथक्कृत्वेत्यर्थः । विवित्तेऽपि अविशोधितं भवति यदुत्सृष्टं ऊढनोखावत्, जधा णेरइओ सावसेसेण | चेव कम्मेण उव्वट्टिय पदणुवेदणेसु तिरिक्खजोणिएसु उववज्जति । देवावि प्रायेण सुहट्ठाणेसु चेवुववज्जंति, उक्तं हि'कवित्वमारोग्यमतीव मेधा०' ( ) अविधूणिय जधा धूलिपोट्टलगं परिट्ठवेऊण वत्थं पुणो धोवेंति, कंबली वा पीलेउं पुणो पुप्फोडिज्जति एवं सव्वे विधुते पुणो तच्छेषं विशोधयेत् । असमुच्छियंति 'छिदिर् द्वैधीकरणे' (पा.धा. रुधादि ३) असमुच्छिन्नरिणवत् । अहवा 'सृज् विसर्गे' (पा.धा. तुदादि १३४ ) अनुत्सृष्टं द्वितीयश्रुतस्कन्धे चतुर्थमध्ययनम् ॥ २६४ ॥
SR No.600363
Book TitleSuyagadang Suttam Part 02
Original Sutra AuthorN/A
Author
PublisherJinshasan Aradhana Trust
Publication Year2013
Total Pages480
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy