________________
द्वितीय
श्रीसूत्रकृताङ्ग
चूर्णिः ॥२६०॥
श्रुतस्कन्धे
चतुर्थमध्ययनम्
प्रज्ञानं प्रज्ञा, भृशं ज्ञा प्रज्ञा । अव्यभिचारिणीत्यर्थः । मननं मन: मतिरित्यर्थः । सा चावग्रहादिः । वयतीति वाक् जिह्वेन्द्रियगलबिलास्तित्वाद्यद्यपि वाग् विद्यते द्वीन्द्रियादीनां त्रसानां तथाप्येषां पापं हिंसादि करोमि कारयामि | वेत्यध्यवसायो नास्ति अनध्यवसायपूर्विका च वाक् अवागेव मन्तव्या, सदसतोरविशेषात् यदृच्छोपलब्धेरुन्मत्तसुप्तमत्तप्रलापवत् घुणाक्षरवद्वा । स्वयं पापकरणाय अण्णेहिं वा कारवेत्तए । यद्यपि न कारयन्ति न कुर्वन्ति स्वयं 'ते वि णं बला, सव्वेसिपि पाणाणं ४।' अविरतत्वात् 'दिया वा रातो' वा जाव 'अमित्तभूता मिच्छा० णिच्चं पसढ' जाव 'दंडा'ति । [ते] पाणाइवातं जधा तथा मुसावादेऽवि, जधा मूओ अब्रूवः विब्रूवत्वाच्च कम्मुणो ण मुसावाता विरतो भवति । एतेऽवि अ [सा]सत्ता अव्यक्तिचिकिचिकाशब्दं करेमाणा मुसावातातो न विरता भवंति । अप्येवं सचिनां वाच्यावाच्यविशेषोऽस्ति। तेषां तु तदभावात् सर्वमेव मिच्छा भवति । अदत्तमपि तेषामिदमस्मदीयं पराज्यमिति विचारणाऽसम्भवात् अदत्तादानं सर्वं स्तेयं भवति । यद्यपि किंची काष्ठाहारकादि ममीकुर्वन्ती तथापि तत्तेषां केन (चिन्न) दत्तमित्यदत्तादानं भवति । मैथुनमपि मक्षिकादीनि नपुंसकवेदं वेदयंति ।
॥२६०॥
१. पाराज्यमिति-B.CI