________________
श्रीसूत्रकृताङ्गचूर्णि
।। २५९ ।।
मिच्छादंसणे इमं वा तत्त्वमिति शेषमतत्त्वमिति । स्याद्विचारणा ण भवति, अभिग्गहे तु मिच्छादंसणे तु यत्तेनाभिगृहीतं तत्तस्य तत्त्वं प्रतिभासते । सेसेसु अणभिग्गहिएसु ण तस्स एवं भवति इमं तत्त्वमिममतत्त्वमिति । एस खलु अक्खाते असंजत । तस्याकुर्वतोऽपि हिंसादीणि पापानि अविरतत्वात्कर्माजस्रमास्रवत्येवेति सिद्धान्तो । से तं सण्णित्ति दिट्टंतो से किं तं असन्निदिट्टंते ? असण्णिदिट्टंते सञ्जीनामसञ्जीनां मनः सद्रव्यतया तदभावादस्य तीव्रातीव्राध्यवसायकृतो विशेष: प्रसुप्तमत्तमूच्छितेतरवदिति विज्ञेयः । जे इमे असण्णिणो तं जधा - पुढविका० [जधा] (जाव) छट्ठा वेगतिया तसा पाणा । ते तु बेइंदिया जाव संमुच्छिमपंचेंदियतिरिक्खजोणिया संमुच्छिममणुस्सा य । जेसिं णत्थि तक्का इ वा जाव वई ति वा । तेषां हि मनः सद्रव्यताया अभावात् प्रसुप्तानामिव पटुविज्ञानं न भवति । तदभावे चैषां तर्कादीनि न सम्भवन्ति । तर्को मीमांसा विमर्श इत्यनर्थान्तरम् । यथा सञ्जिनः स्थाणुपुरुषविशेषा - (न) भिज्ञा मन्दप्रकाशे स्थाणुपुरुषोचिते देशे तर्कयन्ति किमयं स्थाणुः ? पुरुष ? इति । एवमसञ्ज्ञिनां ऊर्ध्वमात्रालोचना तर्का न भवति स्थाणुः पुरुषो वेति । सञ्ज्ञानं सञ्ज्ञा पूर्वदृष्टेऽर्थे उत्तरकालमालोचना । स एवायमर्थ इति प्रत्यभिज्ञानं १. खलु भगवता अक्खाते मूले।
द्वितीयश्रुतस्कन्धे
चतुर्थमध्ययनम्
।। २५९ ।।