________________
॥ २/१/१/६।
।। श्रीआचाराङ्ग प्रदीपिका ॥
संसृष्टो हस्तः, संसृष्टं मात्रं, सावशेषं द्रव्यम् १ । संसृष्टो हस्तः, संसृष्टं मात्रं, निरवशेषं द्रव्यम् २ । संसृष्टो हस्तः, असंसृष्टं मात्रं, सावशेषं द्रव्यम् ३ । संसृष्टो हस्तः, असंसृष्टं मात्रं, निरवशेषं द्रव्यम् ४ । असंसृष्टो हस्तः, संसृष्टं मात्र, सावशेषं द्रव्यम् ५ । असंसृष्टो हस्तः, संसृष्टं मात्र, निरवशेषं द्रव्यम् ६ । असंसृष्टो हस्तः, असंसृष्टं मात्रं, सावशेषं द्रव्यम् ७ । असंसृष्टो हस्तः, असंसृष्टं मात्र, निरवशेषं द्रव्यम् ८ ।
एतेषु चाष्टसु भङ्गकेषु मध्ये नियमान्निश्चयेनोजस्सु- विषमेषु भङ्गेषु प्रथम-तृतीय-पञ्चम-सप्तमेषु ग्रहणमादानं कर्त्तव्यं, न समेषुR द्वितीयचतुर्थषष्ठाष्टमरूपेषु । इयं चात्र भावना-इह हस्तो मात्र द्वे वा स्वयोगेन संसृष्टे भवतः असंसृष्टे वा, न तद्वशेन पश्चात्कर्म सम्भवति, किं
तर्हि ? द्रव्यवशेन, तथाहि-यत्र द्रव्यं सावशेषं तत्रैते साध्वर्थं खरण्टितेऽपि न दात्री प्रक्षालयति भूयोऽपि परिवेषणसम्भवात्, यत्र तु - निरवशेषं द्रव्यं तत्र साधुदानानन्तरं नियमतस्तद्रव्याधारस्थाली हस्तं मात्रं प्रक्षालयति, ततो द्वितीयादिषु भङ्गेषु द्रव्ये निरवशेषे
॥४६॥