________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
पश्चात्कर्मसम्भवान्न कल्पते, प्रथमादिषु तु पश्चात्कर्मासम्भवात् कल्पते, तत्र प्रथमो भङ्ग एको गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गाः सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पते ।
'अह पुण एवं'ति अथ पुनरसौ भिक्षुर्जानीयात्, तद्यथा - उदकादिनाऽसंसृष्टो हस्तादिस्ततो गृह्णीयात्, यदिवा तथाप्रकारेण दातव्यजातीयेन संसृष्टो हस्तादिस्तेन तथा प्रकारेण हस्तादिना दीयमानमाहारादिकं प्रासुकमेषणीयमितिकृत्वा प्रतिगृह्णीयात् ॥ ३३ ॥
भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा - पिहुयं वा बहुरयं वा जाव चाउलपलंबं वा अस्संजए भिक्खुपडियाए 'चित्तमंताए सिलाए जाव मक्कडासंताणाए कोहिंसु वा कोट्टेति वा कोट्टिस्संति वा उप्फणिंसु वा ३ । तहप्पगारं पिहूयं वा जाव चाउलपलंबं वा अफासुयं जाव णो पडिगाहेज्जा ।। (सू. ३४ ) ।।
स भिक्षुर्भिक्षार्थं गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयात्, तद्यथा- पृथुकं शाल्यादिलाजान्, 'बहुरयं 'ति पहुंकं, 'चाउलपलंबं 'ति अर्धपक्वशाल्यादिकणादिकमित्येवमादिकम्, असंयतः- गृहस्थः भिक्षुप्रतिज्ञया भिक्षुमुद्दिश्य चित्तमत्यां शिलायां तथा सबीजायां सहरितायां साण्डायां यावन्मर्कटसन्तानोपेतायाम् अकुट्टिसुः कुट्टितवन्तः कुट्टन्ति कुट्टिष्यन्ति वा, छान्दसत्वाद्बहुवचनं, तच्च पृथुकादिकं सचित्तमचित्तं वा चित्तमत्यां शिलायां कुट्टयित्वा 'उप्फणिंसु' त्ति साध्वर्थं वाताय दत्तवन्तो ददति दास्यन्ति वा, तदेवं पृथुकादि ज्ञात्वा लाभे सति न प्रतिगृह्णीयात् ॥ ३४ ॥
भिक्खू वा २ व समाणे से ज्जं पुण जाणेज्जा- बिलं वा लोणं उब्भियं वा लोणं अस्संजए भिक्खुपडियाए
॥२/१/१/६ ॥
1180 11