SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/६। मी प्रदीपिका ॥ 8 कर्म-क्रिया यस्य हस्तादेः स तथा तेनोदकाइँण गलद्विन्दुना, एतदुक्तं भवति साधुभिक्षार्थं नैव हस्तादिकं प्रक्षालितं किन्तु तथाप्रकार एव 48 स्वतः कुतोऽप्यनुष्ठानादुदकाइँण हस्तेन, एवं मात्रादिना गलद्विन्दुना दीयमानं चतुर्विधमप्याहारमनेषणीयमिति मत्वा नो गृह्णीयात् । तु अथ पुनरेवं विजानीयात्, तद्यथा-नैव उदकाइँण- गलद्विन्दुना हस्तादिना दद्यात्, किन्तु सस्निग्धेन- शीतोदकस्तिमितेन हस्तादिना ह दीयमानं न प्रतिगृह्णीयात्, एवमिति प्राक्तनं न्यायमतिदिशति, यथोदकस्निग्धेन हस्तेन न ग्राह्यं तथाऽन्येन रजसाऽपि । र एवं मृत्तिकाद्यप्यायोज्यम्, उष:-क्षारमृत्तिका, हरितालहिगुलकमनःशिलाऽञ्जनलवणगेरुकाः प्रतीताः, सचित्ताश्च खनिविशेषोत्पत्तेः, वर्णिका-पीतमृत्तिका, से टिका-खटिका, सौराष्ट्रिका-तुबरिका, पिष्टम्-अच्छटिततन्दुलचूर्णः, कुक्कुसाः- प्रतीताः, 'उक्कुटु'त्ति 40 8 पीलुपर्णिकादेरुदूखलचूर्णितमार्द्रपर्णचूर्णमित्येवमादिना सस्निग्धेन हस्तादिना दीयमानं न गृह्णीयात्, इत्येवमादिना त्वसंसृष्टेन तु गृह्णीयात् । ___ अथ पुनरेवं जानीयान्नोऽसंसृष्टः, किं तर्हि संसृष्टस्तज्जातीयेनाहारादिना तेन संसृष्टेन हस्तादिना प्रासुकमेषणीयमिति गृह्णीयात्, अत्र 4.8 पूरचाष्टौ भङ्गाः, तद्यथा। “संसट्टेयर हत्थो मत्तो विय दव्वसावसेसयरं । एएसु अट्ठभंगा नियमा गहणं तु एएसु ॥१॥" दातुः सम्बन्धी हस्तः संसृष्टोऽसंसृष्टो वा भवति, येन च कृत्वा भिक्षां ददाति तदपि मात्र संसृष्टमसंसृष्टं वा द्रव्यमपि र सावशेषमितरद्वाऽसावशेषम् । एतेषां त्रयाणामपि पदानां संसृष्टहस्त - संसृष्टमात्र - सावशेषद्रव्यरूपाणां सप्रतिपक्षाणां परस्परं संयोगतोऽष्टौ म भङ्गा भवन्ति, ते चामी ॥४५॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy