________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
साम्प्रतं गृहपतिकुलं प्रविष्टस्य साधोर्विधिमाह -
। ॥ २/१/१/६॥ से भिक्खू वा २ जाव समाणे णो गाहावतिकुलस्स दुवारसाहं अवलंबिय २ चिट्ठज्जा, णो गाहावतिकुलस्स दगछड्डणमत्तए चिडेज्जा, णो गाहावतिकुलस्स चंदणिउयए चिट्ठज्जा, णो गाहावतिकुलस्स असिणाणस्स वा वच्चस्स वा संलोए सपडिदुवारे, चिट्ठज्जा, णो गाहावतिकुलस्स आलोयं वा थिग्गलं वा संधिं वां दगभवणं वा बाहाओ पगिज्झिय २ अंगुलियाए वा
उद्दिसिय २ ओणमिय २ उण्णमिय २ णिज्झाएज्जा। णो गाहावतिं अंगुलियाए उद्दिसिय २ जाएज्जा, णो गाहावतिं अंगुलियाए 40 88 चालिय २ जाएज्जा, णो गाहावतिं अंगुलयाए तज्जिय २ जाएज्जा, णो गाहावतिं अंगुलियाए उक्खुलंपिय २ जाएज्जा, णो 88 गाहावतिं वंदिय २ जाएज्जा, णो व णं फरुसं वदेज्जा॥ (सू.३२)।
स भिक्षुर्भिक्षार्थं गृहपतिकुलं प्रविष्टः सन्नैतत्कुर्यात्, तद्यथा-नो गृहपतिकुलस्य द्वारशाखाम् अवलम्ब्य [२] पौनःपुन्येन भृशं दूर वाऽवलम्ब्य च तिष्ठेद्, यतः सा जीर्णत्वात्पतेद् दुष्प्रतिष्ठितत्वाद्वा चलेत् ततश्च संयमात्मविराधनेति, ‘दगछड्डणमत्तए'त्ति
उदकप्रतिष्ठापनमात्रके-उपकरणधावनोदकप्रक्षेपस्थाने प्रवचनजुगुप्साभयान्न तिष्ठेत्, 'चंदणिउयए'त्ति आचमनोदकप्रवाहभूमौ न तिष्ठेद्, 8.8 दोषः पूर्वोक्त एव, तथा स्नानवर्चःसंलोके तत्प्रतिद्वारे वा न तिष्ठेत्, यत्र स्थितैः स्नान-वर्चःक्रिये कुर्वन् गृहस्थः समवलोक्यते तत्र न तिष्ठेत्,88
दोषश्चात्र दर्शनाशङ्कया निःशङ्कतक्रियाया अभावेन निरोधप्रद्वेषसम्भवात्, तथा नैव गृहपतिकुलस्यालोकस्थानं - गवाक्षादिकम्, 'थिग्गलं'ति 20 म प्रदेशपतितसंस्कृतं, 'संधिं' ति चौरखातं भित्तिसन्धिं वा, उदकभवनं-उदकगृहं, सर्वाण्येतानि भुजां प्रगृह्य [२ ] पौनःपुन्येन प्रसार्यम 88१ भुजम् परिगृह्य - पा.।
॥४२॥