SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/६॥ एवं च तस्य भिक्षोः सामयम् - सम्पूर्णो भिक्षुभाव इति ॥ ३०॥ ॥ श्रीआचाराङ्ग ॥ श्रीपिण्डेषणाध्ययनस्य पञ्चमोद्देशकप्रदीपिका समाप्ता ।। प्रदीपिका ॥ ॥श्रीपिण्डैषणाध्ययने षष्ठोद्देशकः॥ पञ्चमोद्देशके श्रमणाद्यन्तरायतया गृहप्रवेशो निषिद्धः, षष्ठेऽप्यपरप्राण्यन्तरायप्रतिषेधार्थमाह से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा, रसेसिणो बहवे पाणा घासेसणाए संथडे संणिवतिए पेहाए, तं जहा-कुक्कुडजातियं वा सूयरजातियं वा, अग्गपिंडसि वा वायसा संथडा संणिवतिया पेहाए, सति परक्कमे संजया णो उज्जुयं गच्छेज्जा ।। (सू.३१)॥ स भिक्षुर्भिक्षार्थं प्रविष्टः सन् यदि पुनरेवं जानीयात्, तद्यथा - बहवः प्राणाः-प्राणिनः रसैषिणः - रसान्वेषिणः, ते तदर्थिनः सन्तः पश्चाद् ग्रासा) क्वचिद्रथ्यादौ निपतितास्तांश्चाहारार्थं संस्कृ(स्तृ)तान् - घनान् प्रेक्ष्य ततस्तदभिमुखं न गच्छेदिति सम्बन्धः, तांश्च स्वनामग्राहमाह - कुक्कुटजातिकं वेत्यनेन पक्षिजातिरुद्दिष्टा, सूकरजातिकं वेत्यनेन चतुष्पदजातिर्गृहीता, अग्रपिण्डे वा-काकपिण्ड्यां वा TR बहिःक्षिप्तायां वायसाः संनिपतिता भवेयुः, तांश्च द्रष्ट्याग्रतः, सति पराक्रमे- अन्यस्मिन् मार्गान्तरे संयतः-सम्यगुपयुक्तः ऋजुस्तदभिमुखं न पूर म् गच्छेद्, यतस्तत्र गच्छतोऽन्तरायदोषो भवति ।। ३१ ।। ॥४१॥ १ चिप्र(द्र)सादौ - पा.
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy