________________
॥२/१/१/५॥
18 साधु परिभाजयन्तं कश्चिदेवं ब्रूयाद्, यथा- आयुष्मन् ! श्रमण ! मा परिभाजय, किन्तु सर्व एव चैकत्र वयं भोक्ष्यामहे पास्यामो वा, तत्र 48 । श्रीआचाराङ्ग
परतीर्थिकैः सार्धं न भोक्तव्यं, स्वयूथ्यैश्च पार्श्वस्थादिभिः सह, साम्भोगिकैः सहाप्यालोचनां दत्वा भुञ्जानानामयं विधिः, तद्यथा- ‘से न प्रदीपिका ॥
तत्थ भुंजमाणे' इत्यादि सुगमम् ॥२९॥
इहानन्तरसूत्रे बहिरालोकस्थानं निषिद्धं, साम्प्रतं तत्प्रवेशप्रतिषेधार्थमाह -
से भिक्खू वा २ जाव समाणे से ज्जं पुण जाणेज्जा, समणं वा माहणं वा गामपिंडोलगं वा अतिहिं वा पुव्वपविढे पेहाए णो ते उवातिक्कम्म पविसेज्ज वा ओभासेज्ज वा । से त्तमायाए एगंतमवक्कमेज्जा, २ [ त्ता] अणावायमसंलोए चिट्ठज्जा। अह पुणेवं जाणेज्जा पडिसेहिए वदिण्णे वा, तओ तम्मि णिवट्टिते संजयामेव पविसेज्ज वा ओभासेज्ज वा । एतं खलु तस्स भिक्खूस्स वा भिक्खुणीए वा सामग्गियं ।। (सू.३०)
॥श्रीपिण्डैषणाध्ययनस्य पञ्चमोद्देशकः समाप्तः ।। स भिक्षुामादौ प्रविष्टः सन् यदा पुनरेवं जानीयात् तद्यथा- अत्र गृहपतिकुले श्रमणादिकः प्रविष्टः, तं च पूर्वप्रविष्टं श्रमणादिकं प्रेक्ष्य ततो न तान् श्रमणादीन् पूर्वप्रविष्टानतिक्राम्य प्रविशेत्, नाऽपि तस्थ एव अवभाषेत-दातारं याचेत, अपि च- स तम् आदायज्ञात्वैकान्तमपक्रामेद् अनापाताऽसंलोके तिष्ठेत्तावद्यावच्छ्रमणादिके प्रतिषिद्धे पिण्डे वा तस्मै दत्ते, ततस्तस्मिन्निवृत्ते-गृहान्निर्गते सति ततः संयत एव प्रविशेदवभाषेत वा।
॥ ४०॥