________________
। श्रीआचाराङ्ग प्रदीपिका।
दातृप्रतिग्राहकासमाधानान्तरायभयान्न तदालोके तिष्ठेत्, नापि तन्निर्गमद्वारं प्रतिग्राहकासमाधानान्तरायभयात् ।
।। २/१/१/५॥ PR किन्तु स भिक्षुस्तं श्रमणादिकं भिक्षार्थमुपस्थितम् आदाय - ज्ञात्वेकान्तमपक्रामेत्, अपक्रम्य चान्येषां चानापाते - विजनेऽसंलोके
च संतिष्ठेत्, तत्र च तिष्ठतः 'से'तस्य- भिक्षोश्चतुर्विधमप्याहारमाहृत्य दद्यात्, प्रयच्छंश्चैतद् ब्रूयाद् - यथा यूयं बहवो भिक्षार्थमुपस्थिता अहं च व्याकुलत्वान्नाहारं विभजितुमलमतो हे आयुष्मन्तः ! श्रमणाः!' अयमाहारश्चतुर्विधोऽपि भे'युष्मभ्यं सर्वजनार्थं मया निसृष्टो - दत्तस्तत्साम्प्रतं स्वरुच्या तमाहारमेकत्र वा भुञ्जध्वं परिभजध्वं वा-विभज्य वा गृह्णीत, - तदेवंविध आहार उत्सर्गतो न गाह्यः, दुर्भिक्षे वाऽध्वाननिर्गतादौ वा द्वितीयपदे कारणे सति गृह्णीयाद्, गृहीत्वा च नैवं कुर्यात्, तद्यथा - तमाहारं गृहीत्वा तूष्णीको गच्छन्नेवमुत्प्रेक्षेत१ यथा ममैवायमेकस्य दत्तोऽपि चायमल्पत्वान्ममैवैकस्य स्याद्, एवं च मातृस्थानं संस्पृशेद्, अतो नैवं कुर्यात् । । यथा च कुर्यात्तथा दर्शयति-स भिक्षुस्तमाहारं गृहीत्वा तत्र श्रमणाद्यन्तिके गच्छेद्गत्वा च सः पूर्वमेव-आदावेव तेषामाहारम् आलोकयेद्दर्शयेत्, इदं च ब्रूयाद्-यथा भो आयुष्मन्तः ! श्रमणादयः ! अयमशनादिक आहारो 'भे' युष्मभ्यं सर्वजनार्थमविभक्त एव गृहस्थेन निसृष्टो-दत्तस्तद्यूयमेकत्र भुञ्जध्वं' विभजध्वं वा, ‘से' अथैनं साधु ब्रुवाणं कश्चिच्छ्रमणादिरेवं ब्रूयाद्-यथा भो आयुष्मन् ! श्रमण !
त्वमेवास्माकं परिभाजय, नैवं तावत्कुर्यात्, अथ सति कारणे कुर्यात् तदाऽनेन विधिनेति दर्शयति-से तत्थ परिभाएमाणे'त्ति स पूस भिक्षुर्विभाजयन्नात्मनः खलु २' प्रचुरं २ 'डायत्ति शाकम्, 'ऊसढं'ति उत्सृत वर्णादिगुणोपेतं , शेषं सुगमं यावद्रूक्षमिति न गृह्णीयात् । 78 म से तत्थ अमुच्छितेत्ति अपि च स-भिक्षुस्तत्र आहारेऽमूर्च्छितोऽगृद्धोऽनाहतोऽनध्युपपन्नः, बहुसमं-सर्वमत्र' समं परिभाजयेत् । तं च है
॥ ३९॥ १ष्मन् ! श्रमण ! - हे. । २ भुध्वम् - बृ. । ३ भुङ्ग्ध्व म् - बृ. । ४ उच्छ्रितम् - बृ. । ५ सर्वत्र - पा. ।