________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
नीयमानं प्रेक्ष्य तत्र भक्तार्थी न गच्छेत्, यतस्तत्र गच्छतो गतस्य च दोषाः सम्भवन्ति, तांश्च दर्शयति- गच्छतस्तावदन्तराले 'से' तस्य - भिक्षोर्मार्गाः पन्थानो बहवः प्राणाः प्राणिनः पतङ्गादयो येषु ते, तथा बहुबीजा- बहुहरिता, बह्नवश्याया, बहूदका, बहूत्तिङगपनकोदकमृत्तिकामर्कटसन्तानकाः, प्राप्तस्य च तत्र सङ्खडिस्थाने बहवः श्रमणब्राह्मणातिथिकृपणवणीमगा उपागता उपाय उपागच्छन्ति वा, तत्राकीर्णा चरकादिभिर्वृत्तिः- वर्तनमतो न तत्र प्राज्ञस्य निष्क्रमणप्रवेशाय वृत्तिः कल्पते, नापि प्राज्ञस्य वाचनाप्रच्छनापरिवर्तनाऽनुप्रेक्षाधर्मानुयोगचिन्तायै वृत्तिः कल्पते, तत्र जनाकीर्णे गीतवादित्रसम्भवात् स्वाध्यायादिक्रिया न प्रवर्त्तन्त इति भावः, स भिक्षुरेवं गच्छगतापेक्षया बहुदोषां तथाप्रकारां मांसप्रधानादिकां पुरः सङ्खडिं पश्चात्सङ्खडिं वा ज्ञात्वा तत्प्रतिज्ञया नाभिसन्धारयेद्गमनाय ।
साम्प्रतमपवादमाह- स भिक्षुरध्वनि क्षीणो ग्लानोत्थितस्तपश्चरणकर्षितो वाऽवमौदर्यं प्रेक्ष्य दुर्लभद्रव्यार्थी वा स यदि पुनरेवं जानीयात् - मांसादिकमित्यादि पूर्ववदालापको यावदन्तराले 'से' तस्य- भिक्षोर्गच्छतो मार्गा अल्पप्राणा अल्पबीजा अल्पहरिता इत्यादि । व्यत्ययेन पूर्ववदालापकः तदेवमल्पदोषां सङ्खडिं ज्ञात्वा मांसदोषपरिहरणसमर्थः सति कारणे तत्प्रतिज्ञयाऽभिसन्धारयेद्गमनायेति ॥ २२ ॥ पिण्डाधिकारेऽनुवर्त्तमाने भिक्षगोचरमधिकृत्याह
भिक्खू वा २ गाहावति जाव पविसित्तुकामे से ज्जं पुण जाणेज्जा, खीरिणीओ गावीओ खीरिज्जमाणीओ पेहाए, असणं वा ४ उवसंखडिज्जमाणं पेहाए, पुरा अप्पजूहिते । सेवं णच्चा णो गाहावतिकुलं पिंडवायपडियाए णिक्खमेज्ज वा पविसेज्ज वा ।
॥ २/१/१/४ ॥
॥ २९ ॥