________________
॥२/१/१/४ ॥
॥ श्रीआचाराङ्ग प्रदीपिका ॥
PR से त्तमायाए एगंतमवक्कमेज्जा, एगंतमवक्कमित्ता अणावायमसंलोए चिट्ठज्जा । अह पुण एवं जाणेज्जा, खीरिणीओ 28 मह गावीओ खीरियाओ पेहाए, असणं वा ४ उवक्खडितं पेहाए, पुरा पहिते । सेवं णच्चा ततो संजयामेव गाहावतिकुलं पिंडवातपडियाए णिक्खमेज्ज वा पविसेज्ज वा॥ (सू.२३)
स भावभिक्षुर्गृहपतिकुलं प्रविष्टकामः सन्नथ पुनरेवं जानीयाद, यथा क्षीरिण्यो गावोऽत्र दुह्यन्ते ताश्च दुह्यमानाः प्रेक्ष्य तथाऽशनादिकं चतुर्विधमप्याहारमुपसंस्क्रियमाणं प्रेक्ष्य तथा 'अप्पजूहिते'त्ति सिद्धेऽप्योदनादिके पुरा - पूर्वमन्येषामदत्ते सति प्रवर्तनाधिकरणापेक्षी पूर्वत्र
च प्रकृतिभद्रकादिः कश्चिद् यतिं द्रष्ट्वा श्रद्धावान् बहुतरं दुग्धं ददामीति वत्सकपीडां कुर्यात् त्रसेयुर्वा दुह्यमाना गावस्तत्र संयमात्मविराधना, 8 अर्धपक्वौदने च पाकार्थं त्वरयाऽधिकं यत्नं कुर्यात्ततः संयमविराधना, तदेवं ज्ञात्वा स भिक्षुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया ने प्रविशेन्नापि निष्क्रामेदिति। __यच्च कुर्यात्तदाह ‘से तमायाए'त्ति स-भिक्षुस्तम् अर्थं गोदोहनादिकम् आदाय-ज्ञात्वा तत एकान्तमपक्रामेद्, अपक्रम्य च गृहस्थानामनापातेऽसंलोके च तिष्ठेत्, तत्र तिष्ठन्नथ पुनरेवं जानीयाद् यथा क्षीरिण्यो गावो दुग्धा इत्यादि पूर्ववत् व्यत्ययेनालापका नेया यावन्निष्कामेत् प्रविशेद्वा ।। २३ ।।
पिण्डाधिकार एवेदमाह -
॥३०॥
१ पूर्वव्यत्य - बृ.।