________________
8
कायेनापरस्य - चरकादेः कायः सङ्क्षोभितपूर्वो भवेत्, स च चरकादिराभाषितः कलहं कुर्यात्, कुपितेन च तेन दण्डेनास्थ्ना वा मुष्टिना वा AR ॥ श्रीआचाराङ्ग
लोष्ठेन वा कपालेन वा साधुरभिहतपूर्वो भवेत्, शीतोदकेन वा कश्चित्सिञ्चेत्, रजसा वा परिघर्षितो भवेत् । एते तावत्सङ्कीर्णदोषाः, ॐ॥२/१/१/३ ॥ प्रदीपिका ॥
अवमदोषाश्चामी- 'अणेसणिज्जे'त्ति अनेषणीयपरिभोगो भवेत्, स्तोकस्य संस्कृतत्वात् प्रभूतत्वाच्चार्थिनां, प्रकरणकारस्यायमाशयः
स्याद् यथा मत्प्रकरणमुद्दिश्यैते समायातास्तत एतेभ्यो मया यथाकथञ्चिद्देयमित्यभिसन्धायाऽऽधाकर्माद्यपि कुर्याद्, अतोऽनेषणीयपरिभोगः 48 स्यात्, 'अण्णेसिं वा' कदाचिद्दात्राऽन्यस्मै दातुमिष्टं, अन्यस्मै दीयमानमन्तराले साधुर्गृह्णीयात्, तस्मादेतान् दोषान् सम्प्रधार्य संयतो 48 निर्ग्रन्थस्तथाप्रकारामाकीर्णावमा सङ्खडिं विज्ञाय प्रतिज्ञया नाभिसन्धारयेत् गमनाय ।। १७ ।।
साम्प्रतं सामान्येन पिण्डशङ्कामधिकृत्याह8 से भिक्खू वा २ जाव पविढे समाणे से ज्जं पुण जाणेज्जा असणं वा ४ ‘एसणिज्जे सिया अणेसणिज्जे सिया' । म वितिगिंछसमावण्णेण अप्पाणेण असमाहडाए लेस्साए तहप्पगारं असणं वा ४ लाभे संते णो पडिगाहेज्जा ॥ (सू.१८)
स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनराहारजातमेषणीयमप्येवं शङ्केत, तद्यथा - विचिकित्सा जुगुप्सा वाऽनेषणीयाशङ्का तया समापन्नः- शङ्कागृहीत आत्मा यस्य स तथा तेन शङ्कापन्नात्मना असमाहडाए' अशुद्धया लेश्यया - उद्गमादिदोषदुष्टमिदमिदमित्येवं 4. चित्तविप्लुत्याऽशुद्धा लेश्या-अन्तःकरणरूपोपजायते, तया सत्या तथाप्रकारम् - अनेषणीयं शङ्कादोषदुष्टमाहारादिकं लाभे सति न 4
॥ २४॥
१ अभिसन्धार्य - बृ।