________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
Rकरेज्जा। 88 से तत्थ कालेण अणुपविसित्ता तत्थितराइतरेहिं कुलेहिं सामुदाणियं एसियं वेसियं पिंडवातं पडिगाहेत्ता आहारं आहारेज्जा 8
6॥२/१/१/३ ।। ॥ (सू.१६) । स भिक्षुरन्यतरां पुरःसङ्खडिं पश्चात्सङ्खडिं वा श्रुत्वाऽन्यतः स्वतो वा निशम्य कुतश्चिद्धेतोस्तदभिमुखं सम्प्रधावत्युत्सुकभूतेनात्मना - यथाऽत्र मे भविष्यति भोज्यं, यतस्तत्र ध्रुवा - निश्चिता सङ्खडिरस्ति, 'णो संचाएति'त्ति न शक्नोति, तत्र सङ्खडिग्रामे इतरेतरेभ्यः कुलेभ्यः सङ्खडिरहितेभ्य: 'सामुदाणिय'ति भैक्षं, किम्भूतम् ? एषणीयम् - आधाकर्मादिदोषरहितं 'वेसिय'ति केवलं रजोहरणादिवेषाल्लब्धं पिण्डपातम् - आहारं परिगृह्याभ्यवहत्तुं न शक्नोति, 'माइट्ठाणं ति तत्र चासौ मातृस्थानं संस्पृशेत्, कथं ? यद्यपी [तरे ] तरकुलाहारप्रतिज्ञया गतो, न चासौ तमभ्यवहर्तुमलं पूर्वोक्तया नीत्या, ततोऽसौ सङ्खडिमे [व गच्छेदे] वञ्च मातृस्थानं तस्य सम्भाव्येत, तस्मान्नैवं कुर्याद् - ऐहिकामुष्मिकापायभयात् सङ्खडिग्रामगमनं न विदध्यात्
यथा च कुर्यात्तथाऽऽह-से तत्थ' त्ति सः- भिक्षुस्तत्र-सङ्खडिनिवेशे कालेनानुप्रविश्य, तत्रेतरेतरेभ्यो गृहेभ्य उग्रादिकुलेभ्यः 9-0 सामुदानिकं- भैक्षं, एषणीयं - प्रासुकं, वैषिकं - केवलवेषावाप्तं धात्रीपिण्डादि दोषारहितं पिण्डपातं प्रतिगृह्याहारमाहारयेत् ॥ १६ ॥
पुनरपि सङ्खडिविशेषमधिकृत्याह -
॥२२॥
१ भैक्ष्यम् - पा.। २ भैक्ष्यम् - पा.।