________________
॥२/१/१/३ ।।
॥ श्रीआचाराङ्ग प्रदीपिका ॥
असंयतः- गृहस्थः, स च श्रावकः प्रकृतिभद्रको वा स्यात्, तत्रासौ साधुप्रतिज्ञया क्षुद्रद्वारा:- सङ्कटद्वाराः वसत्यस्ता महाद्वाराः कुर्यात्, महाद्वाराः कार्यापेक्षया सङ्कटद्वाराः कुर्यात्, तथा समाः शय्या-वसतयो विषमाः सागारिकापातभयात् साधुसमाधानार्थं व्यत्ययं वा कुर्यात्, तथा प्रवाताः शय्याः शीतभयान्निवाताः कुर्यात्, ग्रीष्मकालापेक्षया वा व्यत्ययं विदध्यात्, तथोपाश्रयस्यान्तः- मध्ये बहिर्वा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कुर्यात्, संस्तारकं वा संस्तारयेत्, गृहस्थश्चानेनाभिप्रायेण संस्कुर्याद् - यथैष साधुः १० शय्यायाः संस्कारे विधातव्ये निर्ग्रन्थो - अकिञ्चन इत्यतः सद्गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेत् ।
'तम्हा से संजते'त्ति तस्मात् तथाप्रकाराम् - अनेकदोषदुष्टां सङ्खडिं विज्ञाय, तत्र जातनामकरणविवाहादिका-पुरःसडिः , मृतकसङ्खडि:- पश्चात्सङ्खडिः, तां सर्वां सङ्खडिं सङ्खडिप्रतिज्ञया नोऽभिसन्धारयेत् - न पर्यालोचयेद्गमनक्रियाम् । एवं तस्य भिक्षोः सामग्र्यम्- सम्पूर्णता भिक्षुभावस्य यत्सर्वथा सङ्खडिवर्जनमिति ।। १३ ।।
॥श्रीपिण्डैषणाध्ययनस्य द्वितीयोद्देशकप्रदीपिका समाप्ता ।।
( ॥श्रीपिण्डैषणाध्ययने तृतीयोद्देशकः॥ ) उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके दोषसम्भवात् सङ्खडिगमनं निषिद्धं, प्रकारान्तरेण तद्गतानेव दोषानाह
से एगतिओ अण्णतरं संखडिं आसित्ता पिबित्ता छड्डेज्ज वा, वमेज्ज वा, भुत्ते वा से णो सम्मं परिणमेज्जा, अण्णतरे वा
॥१९॥