SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/१॥ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ गृह उच्छिन्नकं, आच्छेद्यं-परस्माद्बलादाच्छिन्नं, अणिसटुं' - स्वामिनाऽदत्तं, अभ्याहृतं-गृहस्थेनानीतं, तदेवम्भूतं क्रीताद्याहृत्य 'चेतेति'-18 ददाति, अनेनाऽपि समस्ता विशुद्धकोटिर्गृहीता, तत्तथाप्रकारं चतुर्विधमप्याधाकर्मादिदोषदुष्टं यो ददाति तस्मात् पुरुषादपरः पुरुषः पुरुषान्तरं तत्कृतमपुरुषान्तरकृतं वा तेनैव दात्रा कृतं, तथा गृहानिर्गतमनिर्गतं वा, तथा 'अत्तट्ठियं' स्तोकमास्वादितमनास्वादितं वा, तदेवमप्रासुकमनेषणीयं च मन्यमानो लाभे सति न प्रतिगृह्णीयात् । एवं बहून् साधर्मिकान् समुद्दिश्य वाच्यम् । तथा साध्वीसूत्रमप्येकत्वबहुत्वाभ्यां योज्यम् ॥ ६॥ पुनरपि प्रकारान्तरेण विशुद्धकोटिमधिकृत्याह से भिक्खू वा २ जाव पविढे समाणे से जं पुण जाणेज्जा असणं वा ४ बहवे समण-माहण-अतिहि-किवण-वणीमए 92 पगणिय पगणिय समुद्दिस्स पाणाई ४ समारम्भ जाव नो पडिगाहेज्जा ॥ (सू.७) स भावभिक्षुर्यावद्गृहपतिकुलं प्रविष्टो यत्पुनरेवम्भूतमशनादि जानीयात्, तद्यथा-बहून् श्रमणानुद्दिश्य, ते च पञ्चधानिर्ग्रन्थशाक्यतापसगैरिकाजीविकाः, ब्राह्मणान्, अतिथीन्, कृपणान् - दरिद्रान्, वनीपकान् - बन्दिप्रायान् श्रमणादीन् बहूनुद्दिशन् प्रगणय्य प्रगणय्योद्दिशति, द्वित्राः श्रमणाः पच्चषाः ब्राह्मणा इत्यादिना प्रकारेण परिसङ्ख्यातान् श्रमणादीनुद्दिश्य, प्राणादीन् समारभ्य यदशनादि संस्कृतं तदासेवितमनासेवितं वाऽप्रासुकमनेषणीयमाधाकर्म, एवं मन्यमानो लाभे सति न प्रतिगृह्णीयात् ॥७॥ ॥१०॥ १ प्राण्यादीन् - बृ.।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy