SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ॥२/१/१/१॥ ॥ श्रीआचाराङ्ग प्रदीपिका॥ एवंगुणकलि 'धहपतिकता दोषाः ४४ स्वजात्याद्युत्कर्षः, अथ पृष्ठतस्ततस्तत्प्रद्वेषो दातुर्वाऽभद्रकस्य, लाभं च दाता संविभज्य दद्यात्तेनावमौदर्यादौ दुर्भिक्षादौ प्राणवृत्तिन 88 स्यादित्येवमादयो दोषाः, तथा परिहरणं - परिहारस्तेन चरतीति पारिहारिकः- पिण्डदोषपरिहरणादुद्युक्तविहारी साधुरित्यर्थः, स एवंगुणकलितः साधुः अपरिहारिकेण - पार्श्वस्थादिना सह न प्रविशेत्, तेन सह प्रविशतामनेषणीयभिक्षाग्रहणाग्रहणकृता दोषाः, अनेषणीयग्रहणे तत्प्रवृत्तिरनुज्ञाता भवति, अग्रहणे तैः सहासङ्खडादयो दोषाः, तत एतान् दोषान् ज्ञात्वा साधुर्गृहपतिकुलं पिण्डपातप्रतिज्ञया तैः सह न प्रविशेन्नापि [ततो निष्क्रामेदिति । 40 तैः सहान्यत्रापि गमनप्रतिषेधमाह - स भिक्षुर्बहिः विचारभूमिं - संज्ञाव्युत्सर्गभूमि, विहारभूमि-स्वाध्यायभूमिं तैरन्यतीर्थिकादिभिः । 28 सह दोषसम्भवान्न प्रविशेत्, विचारभूमौ प्रासुको दकस्वच्छास्वच्छ बह्वल्पनिर्लेपनकृतोपघातसद्भावात्, बिहारभूमौ वा 88 सिद्धान्तालापकविकत्थनभयात्सेहाद्यसहिष्णुकलहसद्भावाच्च साधुस्तां तैः सह न प्रविशेन्नापि ततो निष्क्रामेत् । मह स भिक्षुर्दामाद्नामान्तरं गच्छन्नेभिरन्यतीर्थिकादिभिः सह दोषसम्भवान्न गच्छेत्, [तथाहि-] कायिक्यादिनिरोधे सत्यात्मविराधना, तू #व्युत्सर्गे च [प्रासुका] प्रासुकग्रहणादावुपघातसंयमविराधने भवतः, एवं भोजनेऽपि दोषसम्भवो भावनीयः, सेहादिविप्रतारणादोषश्चेति ॥४॥ साम्प्रतं तद्दानप्रतिषेधार्थमाह से भिक्खू वा २ जाव पविढे समाणे णो अण्णउत्थियस्स वा गारत्थियस्स वा परिहारिओ अपरिहारियस्स असणं वा ४ देज्जा वा अणुपदेज्जा वा ॥ (सू.५) ॥८॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy