SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ इत्यादिकारणैरुपस्थितैरल्पबहुत्वं पर्यालोच्य गीतार्थो गृह्णीयादिति । ॥२/१/१/१॥ ॥ श्रीआचाराङ्ग ४ अथाऽनाभोगात् संसक्तं गृहीतं तत्र विधिमाह- ‘से य आहच्च'त्ति स च भावभिक्षुः सहसा संसक्तादिकमाहारजातं 83 प्रदीपिका ॥ PR कदाचिदनाभोगात्प्रतिगृह्णीयात्, तम् - एवम्भूतमशुद्धमाहारमादायकान्तम् - गच्छेत्, गत्वा च 'अहे आरामंसिवा' अथारामे वा, T8 अथोपाश्रये वा, अथशब्दः सागारिकाणामसम्पातानालोकादिविशिष्टप्रदेशोपसङ्ग्रहार्थः, वाविकल्पे, अल्पाण्डे-अल्पशब्दोऽभाववचनः अपगताण्डे, एवमल्पबीजे, अल्पहरिते, अल्पावश्याये अवश्यायः-उदकसूक्ष्मतुषारः, अल्पोदके, अल्पोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानके उत्तिङ्गो-भूमौ वृत्तविवरकारी गर्दभाकारो जीवः', कीटिकानगराणि वा, पनकः-पञ्चवर्णा फुल्लिः, दकमृत्तिका- अनुपहतभूमौ द्रवश्चिखिल्लः, 48 मर्कटकसन्तानः -कोलिकजालकं, तदेवमण्डादिदोषरहिते आरामादिके स्थण्डिले गत्वा प्राग्गृहीताहारस्य यत्संसक्तं तद् विविच्य विविच्य-28 महत्यक्त्वा त्यक्त्वा, उन्मिश्रं वा-आगामुकसत्वसंवलितं सक्तुकादि, ततः प्राणिनो विशोध्य विशोध्य ततस्तदनन्तरं शेषं शुद्धं परिज्ञाय 5 सम्यग्यत एव भुञ्जीत पिबेद्वा रागद्वेषविप्रमुक्तः सन् । 'जं च णो संचाएज्जा' यच्चाहारादिकं पातुं भोक्तुंवा न शक्नुयात्प्राचुर्यादशुद्धपृथक्करणासम्भवाद्वा, स-भिक्षुस्तद्आहारजातमादायकान्तमपक्रामेत, अपक्रम्य च तदाहारजातं परिष्ठापयेत्, क्वेत्याह-'अहे झामथंडिल्लंसि वा' अथ 'झामे ति दग्धं 48 तस्मिन् वा स्थण्डिले, अस्थिराशौ वा, किट्टो-लोहादिमलस्तद्राशौ वा, तुषराशौ वा, गोमयराशौ वा, अन्यतरराशौ वा, तथाप्रकारे-88 र पूर्वसदृशे प्रासुके स्थण्डिले गत्वा तत् प्रत्युपेक्ष्य प्रत्युपेक्ष्य अक्ष्णा, प्रमृज्य प्रमृज्य रजोहरणादिना, ततःसंयत एव-सम्यगुपयुक्त एव ? ॥४॥ १ सहसात् - पा. । २ वरकारिणो ग- पा०। वृत्तिविवरकारा जीवा: - हे। तिङ्गस्तृणाग्रउदकबिन्दुः-७०।
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy