________________
॥ श्रीआचाराङ्ग प्रदीपिका ।।
उम्मिस्सं विसोहिय विसोहिय ततो संजातमेव भुंजेज्ज वा पिएज्ज वा। . जंच णो संचाएज्जा भोत्तए वा पातए वा से तमादाय एगंतमवक्कमज्जा, [त्ता] अहे झामथंडिल्लंसि वा अट्ठिरासिंसि 4.8 पूल वा किट्टरासिंसि वा तुसरासिंसि वा गोमयरासिंसि वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि पडिलेहिय पडिलेहिय पमज्जिय पमज्जिय ततो संजयामेव परिवेज्जा ॥ (सू.१)
से भिक्खु' त्ति स भावभिक्षुराहारार्थी सन् गृहपतिः - गृहस्थस्तस्य कुलमनुप्रविष्टः, किमर्थं ? 'पिंडवायपडियाए' पिण्डपातोभिक्षालाभस्तत्प्रतिज्ञया-अहमत्र भिक्षां लप्स्य इति, प्रविष्टः सन् यत्पुनरशनादि जानीयात् कथम् ? प्राणिभिः-रसजादिभिः पनकैः-उल्लीजीवैः संसक्तं, बीजैः-गोधूमादिभिः, हरितैः-दूर्वाऽङ्कुरादिभिरुन्मिभ्रं, शीतोदकेन वा अवसिक्तं- आर्टीकृतं, रजसा वा -सचित्तेन ‘परिघासियंति परिगुण्डितं, तथाप्रकार-एवंजातीयमशुद्धमशनादि चतुर्विधमप्याहारं परहस्ते-दातृहस्ते परपात्रे वा स्थितं, अप्रासुकं-सचित्तं, अनेषणीयंआधाकर्मादिदोषदुष्टं, इति-एवं मन्यमानः स-भावभिक्षुःसत्यपि लाभे न प्रतिगृह्णीयादुत्सर्गतः, अपवादतस्तु द्रव्यादिज्ञात्वा प्रतिगृह्णीयादपि, तत्र द्रव्यं -दुर्लभद्रव्यं, क्षेत्रं-साधारणद्रव्यलाभरहितं सरजस्कादिभावितं वा, कालो दुर्भिक्षादिः, भावो-ग्लानता दिः,
१. श्रीमहावीरजैनविद्यालयप्रकाशित 'आयारंगसुत्तं' नाम्नि पुस्तके दर्शनप्रभावक-श्रुतस्थविरश्रीजम्बूविजयमहाराजेन पृ. १०४ मध्ये एतत्स्थाने एवं टीप्पितम्"अत्रेदं बोध्यम् - यत्र क्रियापदानन्तरम् २ इति अङ्गो हस्तलिखितादर्शेषूपलभ्यते यत्र च तेन क्त्वा प्रत्ययान्तो धातुर्विवक्षितस्तत्र स्पष्टीकरणार्थमस्माभिः [त्ता] इति पाठो मूले निवेशितः, तेनात्र एगतमवक्कमेज्जा २ इत्यस्य एगतमवक्कमेज्जा, एगतमवक्कमेत्ता इत्यर्थोऽवगन्तव्यः । एवमन्यत्रापि यत्र यत्र सत्ता इति पाठोऽग्रे दृश्यते तत्र तत्र सर्वत्राप्येवं यथायोगमवगतन्व्यम् ॥" इत्यस्माभिरप्येतदभिप्रायेणैव तत्तत्स्थाने |त्ता इति पाठो मूले निर्देशितः॥
॥३॥