________________
॥ २/२/५॥
से भिक्खू वा २ अहावेगइयाई रूवाइं पासति, तंजहा-गंथिमाणि वा वेढिमाणि वा पूरिमाणि वा संघातिमाणि वा ॥ श्रीआचाराङ्ग
म कट्ठकम्माणि वा पोत्थकम्माणि वा चित्तकम्माणि वा मणिकम्माणि वा दंतकम्माणि वा पत्तच्छेज्जकम्माणि वा विविहाणि प्रदीपिका ॥
वा वेढिमाई अण्णतराई (वा ) तहप्पगाराई विरूवरूवाई चक्खुदंसणवडियाए णो अभिसंधारेज्ज गमणाए। एवं नेयव्वं जहा सद्दपडिमा सव्वा वाइत्तवज्जा रूवपडिमा वि॥ (सू.१७१)
॥'रूव' सत्तिक्कयं समत्तं ॥ स भावभिक्षुः क्वचित् पर्यटन्नथैकानि' कानिचिन्नावाविधानि रूपाणि पश्यति, ग्रथितानि ग्रथितपुष्पादिनिर्वर्तितस्वस्तिकादीनि, 28 वेष्टिमानि - वस्त्रादिनिर्वर्तितपुत्तलिकादीनि, 'पूरिमाणि' यान्यन्तःपूरणेन पुरुषाद्याकृतीनि भवन्ति, संघातिमानि - चोलकादीनि, काष्ठकर्माणि TR
- रथादीनि, पुस्तकर्माणि - लेप्यादीनि', चित्रकर्माणि-प्रतीतानि, मणिकर्माणि-विचित्रमणिनिष्पादितस्वस्तिकादीनि, दन्तकर्माणिदन्तपुत्तलिकादीनि, तथा पत्रच्छेद्यकर्माणि, इत्येवमादीनि विरूपरूपाणि चक्षुर्दर्शनप्रतिज्ञया नाभिसन्धारयेद्गमनाय । एवं शब्दसप्तैककसूत्राणि चतुर्विधातोद्यरहितानि सर्वाण्यपीहायोज्यानि केवलं रूपप्रतिज्ञयेत्येवमभिलापो योज्यः, दोषाश्चात्र प्राग्वत् ।। १७१ ॥
॥ द्वितीयचूलिकायां पञ्चमः सप्तककः समाप्तः॥ ॥ द्वितीयश्रुतस्कन्धे श्रीरूपाध्ययनप्रदीपिका समाप्ता॥
॥ २१६॥
१ टन् तथैका-पा।२ लेप्यकर्माणि-पा।