________________
॥२/२/४/॥
88 स भिक्षुर्महोत्सवस्थानानि यावन्त्येवंभूतानि जानीयात्तद्यथा-स्त्रीपुरुषस्थविरबालमध्यमवयांस्येतानि भूषितानि गायनादिकाः क्रिया ॥ श्रीआचाराङ्ग
यत्र कुर्वन्ति तानि स्थानानि श्रवणेच्छया न गच्छेत् । प्रदीपिका ॥ स भिक्षुः-ऐहिकामुष्मिकापायभिरुः नो-नैव ऐहलौकिकैः- मनुष्यादिकृतैः पारलौकिकैः-पारापतादिकृतैः शब्दः, श्रुतैरश्रुतैर्वा,
साक्षादुपलब्धैरनुपलब्धैर्वा न सङ्गं कुर्यात् - न रागं गच्छेत्, न गाय॑ प्रतिपद्येत्, न तेषु मुह्येत्, [नाध्युपपन्नो भवेत्]
एतत्तस्य भिक्षोः समाग्यम्, शेषं पूर्ववत्, इह च सर्वत्रायं दोष:-अजितेन्द्रियत्वं स्वाध्यायादिहानी रागद्वेषसंभव, एवमपरेऽपि दोषा ऐहिकामुष्मिकापायभूताः स्वधिया समालोच्या इति ।। १७० ॥
॥ द्वितीयचूलिकायां चतुर्थः सप्तककः समाप्तः ।। ॥ द्वितीयश्रुतस्कन्धे श्रीशब्दाध्ययनप्रदीपिका समाप्ता।
बारसमं अज्झयणं 'रूव' सत्तिक्कयं॥
. (बीयाए चूलाए पंचमं अज्झयणं) चतुर्थाध्ययने श्रवणेन्द्रियमाश्रित्य रागद्वेषोत्पत्तिर्निषिद्धा, पञ्चमेऽपि चक्षुरिन्द्रियमाश्रित्य निषिध्यते, इत्यनेन सम्बन्धेनायातस्यास्य रूपसप्तैकस्यादिसूत्रम् -
||२१५॥
१ यान्येवंभू-बा