________________
॥ श्रीआचाराङ्ग
प्रदीपिका ॥
नो अदिट्ठेहिं सद्देहिं, नो इंट्ठेहिं सद्देहिं, नो कंतेहिं सद्देहिं सज्जेज्जा, णो रज्जेज्जा, णो गिज्झेज्जा, णो मुज्झेज्जा, णो अज्झोवज्जेज्जा ।
एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं जाव जएज्जासि त्ति बेमि । (सू. १७० ) ।
॥ सद्द' सत्तिकओ समत्तो ॥
भिक्षुः आख्यायिकास्थानानि - कथानकस्थानानि, तथा मानोन्मानस्थानानि मानं - प्रस्थकादि, उन्मानं - नाराचादिः, महान्ति च तान्याहतनृत्यगीतवादित्रतन्त्रीतलता लत्रुटितप्रत्युत्पन्नानि च तेषां स्थानानि सभाः [ तद् ] वर्णनानि वा श्रवणप्रतिज्ञया नाभिसन्धारयेद्गमनाय ।
कलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेत् ।
स भिक्षुः क्षुल्लिकां दारिकां मण्डितालङ्कृतां बहुपरिवृत्तां 'निवुज्झमाणिं'ति अश्वादिना नीयमानां तथैकं पुरुषं वा वधाय नीयमानं प्रेक्ष्याहमत्र किञ्चिच्छ्रोष्यामीति श्रवणार्थं तत्र न गच्छेत् ।
स भिक्षुर्यान्येवं जानीयात्, महान्त्येतान्याश्रवस्थानानि - पापोपादानस्थानानि वर्त्तन्ते, तद्यथा - बहुशकटानि बहुरथानि बहुम्लेच्छा बहु प्रात्यन्तिकानि, एवंप्रकाराणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धारेद्रन्तुम् ।
१ टितपटुप्रवादितानि - पा ।
॥२/२/४/ ॥
।। २१४ ।।