________________
॥ श्रीआचाराङ्ग प्रदीपिका ।
॥२/२/३ ।।
स भिक्षुरङ्गारदाहस्थानश्मशानादौ नोच्चारादि विदध्यात् ।
नद्यायतनानि-यत्र तीर्थस्थानेषु लोकाः पुण्यार्थं स्नानादि कुर्वन्ति, पङ्कायतनानि-यत्र पङ्किलप्रदेशे लोका धर्मार्थं लोटनादिक्रियां 888 कुर्वन्ति, ओघायतनानि-यानि प्रवाहत एव पूज्यस्थानानि तटकादीनां जलागमनस्थानानि [ वा ], सेचनपथे वा निक्कादौ नोच्चारादि विधेयम् ।
स भिक्षुरभिनवासु मृत्खनिषु, नवासु गोप्रलेह्यासु, गवादनीषु-सामान्येन वा गवादनीषु वा खनीषु नोच्चारादि विदध्यात् । 'डाग'त्ति डालप्रधानं शाकं पत्रप्रधानं तु शाकमेव तद्वति स्थाने, मूलकादिवति च नोच्चारादि कुर्यात् । अशनो-बीयकस्तद्वनादौ च नोच्चारादि कुर्यात्, तथा पत्रपुष्पफलाद्युपेतेष्विति ।। १६६ ॥ कथं चोच्चारादि कुर्यादित्याह
से भिक्खू वा २ सपाततं वा परपाततं वा गहाय से तमायाए एगंतमवक्कमे, अणावाहंसि असंलोयंसि अप्पप्पाणंसि जाव मक्क डासंताणयं सि अहारामंसि वा उवस्सयंसि ततो संजयामेव उच्चार-पासवणं वोसिरेज्जा, उच्चारपासवणं वोसिरित्ता सेत्तमायाए एगंतमवक्कमे, अणावाहंसि जाव मक्कडासंताणयंसि अहारामंसि वा झामथंडिलंसि वा अण्णयरंसि वा तहप्पगारंसि थंडिलंसि अचित्तंसि ततो संजयामेव उच्चार-पासवणं वोसिरेज्जा।
GOOGGGG
|| २०८॥