SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ।। २/२/३॥ यत्र गृहपत्यादयः शाल्यादीन्युप्तवन्तो वपन्ति वप्स्यन्ति वा तत्राप्युच्चारादि न कुर्यात् । ।। श्रीआचाराङ्ग स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-आमोकानि-कवचरपुञ्जाः, घमा:-बृहत्यो भूमिराजयः, 'भिलुयाणि' प्रदीपिका ॥ 2 श्लक्ष्णभूमिराजयः, विज्जलं-पिच्छलं, स्थाणुः, 'कडवाणि' इक्षुजो नलिकादिदण्डकः, प्रर्गत्ता दरी प्रतीता, प्रदुर्गाणि-कुड्यप्राकारादीनि, र एतानि च समानि विषमाणि वा भवेयुस्तदेतेष्वात्मविराधनासम्भवान्नोच्चारादि कुर्यात्। स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा-मानुषरन्धनानि-चुल्ल्यादीनि तथा महिष्यादीनुद्दिश्य यत्र किञ्चित्क्रियते ते वा - यत्र स्थाप्यन्ते तत्र लोकविरुद्धप्रवचनोपघातादिभयान्नोच्चारादि कुर्यात् । 9-2 स भिक्षुः वेहानसस्थानानि-मानुषोल्लंबनस्थानानि, गृध्रपृष्ठस्थानानि-यत्र मुमूर्षवो गृध्रादिभक्षणार्थं रुधिरादिलिप्तदेहा निपत्य तिष्ठन्ति, 2.0 तरुपतनस्थानानि-यत्र मुमूर्षव एवानशनेन तरुवत्पतितास्तिष्ठन्ति तरुभ्यो वा यत्र पतन्ति, एवं मेरुपतनस्थानानि, मेरुश्च पर्वतोऽभिधीयते, एवं विषभक्षणाग्निप्रवेशस्थानादिषु नोच्चारादि कुर्यात् । स भिक्षुरारामदेवकुलादिषु नोच्चारादि विदध्यात् । प्राकारसम्बन्धिन्यट्टालादौ नोच्चारादि कुर्यात् । त्रिकचत्वरादौ च नोच्चारादि व्युत्सृजेत् । || २०७॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy