SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ॥ २/२/२ ॥ स भावभिक्षुर्यदि वसतेरुपहताया अन्यत्र निषीथिकां-स्वाध्यायभूमिं गन्तुमभिकाक्षेत्, तां च यदि साण्डां यावत्ससन्तानको ॥ श्रीआचाराङ्गजानीयात्ततोऽप्रासुकत्वान्न प्रतिगृह्णीयात्। प्रदीपिका॥ [किञ्च] स भिक्षुरल्पाण्डादिकां गृह्णीयात्। एवमन्यान्यपि सूत्राणि शय्यावन्नेयानि यावद् यत्रोदकप्रसूतानि कन्दादीनि स्युस्तां न गृह्णीयात् । तत्र गतानां विधिमधिकृत्याह-ये तत्र साधवो निषीथिकाभूमौ द्वित्राद्या गच्छेयुस्ते नान्योऽन्यस्य कार्य-शरीरमालिङ्गयेयु:-परस्परं गात्रसंस्पर्श न कुर्युः, नापि विविधम्-अनेकप्रकारं यथा मोहोदयो भवति तथा विलिङ्गयेयुः', तथा कन्दर्पप्रधाना वक्त्रासंयोगादिकाः क्रिया न कुर्युः । एतत्तस्य भिक्षोः सामयम् यदसौ सर्वार्थः-अशेषप्रयोजनैरामुष्मिकैः सहितः-समन्वितः तथा समितः-पञ्चभिः समितिभिः सदा 4. यावदायुस्तावत्संयमानुष्ठाने यतेत, एतदेव च श्रेय इत्येवं मन्यस्वेति, ब्रवीमीति पूर्ववत् ।। १६४ ।। ॥द्वितीयचूलिकायां द्वितीयः सप्तैककः समाप्तः॥ ॥ द्वितीयश्रुतस्कन्धे श्रीनिषीथिकाऽध्ययनप्रदीपिका समाप्ता॥ ॥ दशमं अज्झयणं 'उच्चार-पासवण' सत्तिक्क ओ॥ १ विलिनेयुः-बृ। ॥ २००॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy