SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ ___तत्रेयं प्रथमा प्रतिमा-कस्यचिद्भिक्षोरेवंभूतोऽभिग्रहो भवति, यथाऽहमचित्तं स्थानमुपाश्रयिष्यामि, किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये 88 कायेन, तथा विपरिक्रमिष्यामि-हस्तपादाद्याकुञ्चनादि करिष्यामि, तथा तत्रैव सविचारं-स्तोकपादविहरणं च समाश्रयियिष्यामि, प्रथमा ४४।। २/२/१/१॥ ॥श्रीआचारान पान प्रदीपिका ॥ प्रतिमा। द्वितीयायां त्वाकुञ्चनप्रसारणादिक्रियामवलम्बनञ्च करिष्ये, न पादविहरणम् । तृतीयायां त्वाकुञ्चनप्रसारणमेव, नावलम्बनपादविहरणे। चतुर्थ्यां पुनराकुञ्चनप्रसारणमपि न विधत्ते, स चैवंभूतो भवति-व्युत्सृष्टः- त्यक्तः परिमितं कालं कायो येन स तथा व्युत्सृष्टं केशश्मश्रु-लोम-नखं येन स तथा । एवम्भूतश्च सम्यग् निरुद्धं स्थानं स्थास्यामीति प्रतिज्ञायकायोत्सर्गव्यवस्थितो मेरुवन्निष्प्रकम्पस्तिष्ठेत्, यद्यपि कश्चित्केशाद्युत्पाटयेत्तथाऽपि स्थानान्न चलेत् । आसां चान्यतमा प्रतिमा प्रतिपद्य नापरमप्रतिपन्नप्रतिमं साधुमपवदेन्नात्मोत्कर्षं कुर्यान्न किञ्चिदेवं जातीयं वदेदिति ॥ १६३ ।। ॥ द्वितीयचूलिकायां प्रथमः सप्तककः समाप्तः।। ॥ द्वितीयश्रुतस्कन्धे श्रीस्थानाध्ययनप्रदीपिका समाप्ता।। ॥ नवमं अज्झयणं 'णिसीहिया' सत्तिक्कयं॥ ॥१९८॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy