________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
श्राम्यतीति श्रमणः- तपस्वी यतोऽहमत एवंभूतो भविष्यामीति दर्शयति-अनगारः त्यक्तगृहवासः, अकिञ्चनः - निष्परिग्रहः, अपुत्रःस्वजनबन्धुममतारहितः, अपशुः - द्विपदचतुष्पदादिरहितः, यत एवमतः परदत्तभोजी सन् पापं न करिष्यामीत्येवं समुत्थायैतत्प्रतिज्ञो भवामीति दर्शयति-यथा सर्वं भदन्त ! अदत्तादानं प्रत्याख्यामि, दन्तशोधनमात्रमपि परकीयमदत्तं न गृह्णामि, स चैवंभूतोऽकिञ्चनः श्रमणोऽनुप्रविश्य ग्रामं वा यावद्राजधानीं वा नैव स्वयमदत्तं गृह्णीयात् नैवापरेण ग्राहयेत्, नाऽप्यपरं गृह्णन्तं समनुजानीयात्, 'जेहिं वि सद्धिं' ति यैः साधुभिः सह सम्यक् प्रव्रजितस्तिष्ठति वा तेषामपि सम्बन्ध्युपकरणमननुज्ञाप्य न गृह्णीयादिति दर्शयति, तद्यथा - छत्रकं - वर्षाकल्पादि, यदि वा कारणिकः क्वचित् कु(को) ङ्कणदेशादावतिवृष्टिसम्भवाच्छत्रकमपि गृह्णीयाद् यावच्चर्मच्छेदनकमप्यननुज्ञाप्याप्रत्युपेक्ष्य च नावगृह्णीयात् सकृत् प्रगृह्णीयादनेकशः । तेषां च सम्बन्धि यथा गृह्णीयात्तथा दर्शयति- 'तेसिं पुव्वामेव' त्ति पूर्वमेव ताननुज्ञाप्य प्रत्युपेक्ष्य चक्षुषा प्रमृज्य रजोहरणादिना सकृदनेकशो वा गृह्णीयातत् ॥ १५५ ॥
से आगंतारेसु वा ४ अणुवीड़ उग्गहं जाएज्जा, जे तत्थ ईसरे जे तत्थ समाहिट्ठाए ते उग्गहं अणुण्णवेजा कामं खलु आउसो ! अहालंद अहापरिण्णायं वसामो, जाव आउसो, जाव आउसंतस्स उग्गहे, जाव साहम्मिया, एत्ताव ताव उग्गहं ओगिहिस्सामो, तेण परं विहरिस्सामो ।
से किं पुण तत्थोग्गहंसि एवोग्गहियंसि ? जे तत्थ साहम्मिया संभोइया समणुण्णा उवागच्छेजा जे तेण सयमोसितए असणे वा ४ तेण ते साहम्मिया संभोइया समणुण्णा उवणिमंतेज्जा, णो चेव णं परपडियाए ओगिज्झिय २ उवणिमंतेज्जा ।। (सू. १५६ )
॥ २/१/७/१ ॥
॥ १८५ ॥