________________
॥ श्रीआचाराङ्ग
प्रदीपिका ॥
भिक्षुरागन्तागारादौ प्रविश्यानुविचिन्त्य च पर्यालोच्य यतिविहारयोग्यं क्षेत्रं ततोऽवग्रहं वसत्यादिकं याचेत, यश्च याच्यस्तं दर्शयति-यस्तत्र ईश्वरः - गृहस्वामी तथा यस्तत्र समधिष्ठाता' - गृहपतिना निक्षिप्तभरः कृतस्तानवग्रहं क्षेत्रावग्रहमनुज्ञापयेत्, कथं ? कामं तवेच्छया आयुष्मन् गृहपते ! 'अहालंदं' - यावन्मात्रं कालं भवाननुजानीते, 'अहापरिण्णायं 'ति यावन्मात्रं क्षेत्रमनुजानीषे तावन्मात्रं [कालं तावन्मात्रे] च क्षेत्रमाश्रित्य वयं वसाम इति यावत्, इहायुष्मन् ! यावन्मात्रं कालमिहायुष्मतोऽवग्रहो यावन्तश्च साधर्मिकाः- साधवः समागमिष्यन्ति तावन्मात्रमवग्रहिष्यामस्तत ऊर्ध्वं विहरिष्यामः ।
अवगृहीते चावग्रहे सत्युत्तरकालविधिमाह-तदेवमवगृहीते स साधुः किं पुनः कुर्यादित्याह ये तत्र केचन प्राघूर्णकाः साधवः साम्भोगिकाः- एकसामाचारीप्रविष्टाः समनोज्ञाः- उद्युक्तविहारिणः उपागच्छेयुः प्राघूर्णका भवेयुः, ते चैवंभूता ये तेनैव साधुना परलोकार्थिना स्वयमेषितव्याः, ते च स्वयमेवागता भवेयुः, तांश्चाशनादिना स्वयमाहृतेन स साधुरुपनिमन्त्रयेद्, यथा-गृह्णीत यूयमेतन्मयाऽऽनीतमशनादिकं क्रियतां ममानुग्रह इत्येवमुपनिमन्त्रयेत् न चैव 'परपडियाए' त्ति परानीतमशनादि तद् भृशम् अवगृह्य-आश्रित्य नोपनिमन्त्रयेत् किं तर्हि । निजाऽऽनीतेनोपनिमन्त्रयेत् ॥ १५६ ॥
से आगंतारेसु वा जाव से किं पुण तत्थोग्गहंसि एवोग्गहियंसि ? जे तत्थ साहम्मिया अण्णसंभोइया समणुण्णा उवागच्छेज्जा जे तेण सयमेसित्तए पीढे वा फलए वा सेज्जासंथारए वा तेण ते साहम्मिए अण्णसंभोइए समणुण्णे उवणिमंतेजा, णो चेव णं परपडियाए ओगिण्हिय २ उवणिमंतेजा ।
१ त्र अधि-पा।
॥२/१/७/१ ॥
।। १८६ ॥