SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ॥ २/१/७/१॥ स भिक्षुरुदकार्दादेः पतद्ग्रहस्यामर्जनादि न कुर्यात्, ईषच्छुष्कस्य तु कुर्यात् । ॥श्रीआचाराङ्ग स भिक्षुः क्वचिद् गृहपतिकुलादौ गच्छन् सपतद्रग्रह एव गच्छेदित्यादि सुगमं यावदेतत्तस्य भिक्षोः साममिति ॥ १५४ ।। 8॥ इति श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकाया द्वितीये श्रुतस्कन्धे प्रथमायां चूलिकायां षष्ठं पात्रैषणाध्ययनं समाप्तम् । ॥अथ सप्तममवग्रहप्रतिमाख्यमध्ययनम्॥ ___ उक्तं षष्ठमध्ययनं, अधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः-पिण्डशय्यावस्त्रपात्रादयोऽवग्रहमाश्रित्य भवन्तीत्यतोऽसावेव कतिविधो भवतीत्यनेन सम्बन्धेनायातस्यास्यावग्रहप्रतिमाध्ययनस्येदमादिसूत्रम् - ___ समणे भविस्सामि अणगारे अकिंचणे अपुत्ते अकिंचणे अपुत्ते अपसू परदत्तभोई पावं कम्मं णो करिस्सामि त्ति समुठ्ठाए सव्वं भंते ! अदिण्णादाणं पच्चक्खामि, से अणुपविसित्ता गामं वा जाव रायहाणिं वा णेव सयं अदिण्णं गेण्हेजा, णेवऽण्णेणं अदिण्णे गेण्हावेजा, णेवऽण्णं अदिण्णं गेण्हतं पि समणुजाणेजा, जेहिं वि सद्धिं संपव्वइए तेसिंऽपियाई छत्तयं वा डंडगं वा मत्तयं वा जाव चम्मच्छेयणगं वा तेसिं पुव्वामेव उग्गहं अणणुण्णविय अपडिलेहिय २ अपमजिय २ णो गिण्हेज वा पगिण्हेज वा, तेसिं पुव्वामेव उग्गहं अणुण्णविय पडिलेहिय पमन्जिय तओ संजयामेव ओगिण्हेज वा पगिण्हेज वा ॥ 88 (सू.१५५) ।।१८४ ॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy