SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ।। श्रीआचाराङ्ग प्रदीपिका॥ 3 ॥२/१/६/१॥ आउसंतो समणा ! आहरेतं वत्थं, देहि, णिक्खिवाहि, जहा रियाए, णाणत्तं वत्थपडियाए। ॥पञ्चमं श्री वस्त्रैषणाध्ययनं समाप्तम् ॥ ___स भिक्षुर्वर्णवन्ति वस्त्राणि चौरादिभयानो विगतवर्णानि कुर्यात्, उत्सर्गतस्तादृशानि न ग्राह्याण्येव, गृहीतानां च परिकर्म न विधेयं, 'विवण्णाई' ति विवर्णानि न शोभनवर्णानि कुर्यादित्यादि सुगमम् । ___ 'से भिक्खु'त्ति सुगम, नवरं 'विहंति अटवीप्रायोग्यः पन्थाः। 'से'-तस्य भिक्षोः पथि यदि आमोषकाः-चौरा वस्त्रग्रहणप्रतिज्ञया समागच्छेयुरित्यादि यावदेतत्तस्य भिक्षोः सामग्यम् ।। १५१ ॥ ॥ इति श्रीबृहत्खतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचितायां श्रीआचाराङ्गदीपिकायां द्वितीये श्रुतस्कन्धे प्रथमायां चूलिकायां पञ्चमं वस्त्रैषणाध्ययनं समाप्तम् ।। ॥अथ पात्रैषणाख्यं षष्ठमध्ययनम्॥ पञ्चमाध्ययनानन्तरं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः- पञ्चमेऽध्ययने वस्त्रैषणा प्रतिपादिता, इह तु पात्रैषणा प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्य पात्रैषणाध्ययनस्यादिसूत्रम् - से भिक्खू वा २ अभिकंखेजा पायं एसित्तए, से जं पुण पायं जाणेजा, तंजहा-लाउयपायं वा दारुपायं वा मट्टियापायं वा, तहप्पगारं पायं जे णिग्गंथे तरुणे जाव थिरसंघयणे से एगं पायं धारेजा, णो बितियं । १वा-पा। ॥१७७॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy