________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
88
॥श्रीवस्त्रैषणाध्ययने द्वितीयोद्देशकः॥ इह प्रथमोद्देशके वस्त्रग्रहणविधिरभिहितः, द्वितीयोद्देशके धरणविधिरभिधीयते, अनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - ४४॥२/१/५/२॥
8 से भिक्खू वा २ अहेसणिजाई वत्थाई जाएजा, अहापरिग्गहियाई वत्थाई धारेजा, णो धोएजा, णो रएजा, णो 78 म धोतरत्ताई वत्थाई धारेजा, अपलिउंचमाणे गामंतरेसु, ओमचेलिए। एतं खलु वत्थधारिस्स सामग्गियं ।
से भिक्खू वा २ गाहावतिकुलं पिंडवायपडियाए पविसिउकामे सव्वं चीवरमायाए गाहावतिकुलं पिंडवातपडियाए म निक्खमेज वा पविसेज वा, एवं बहिया विहारभूमि वा गामाणुगाम वा दूइजेजा।
अह पुणेवं जाणेजा तिव्वदेसियं वा वासं वासमाणं पेहाए, जहा पिंडेसणाए, णवरं सव्वं चीवरमायाए ।। (सू.१४९)
स भिक्षुः यथैषणीयानि-अपरिकर्माणि वस्त्राणि याचेत यथापरिगृहीतानि धारयेत्, न तत्र किञ्चित्कुर्यात्, तद्यथा-न तद्वस्त्रं गृहीतं सत् प्रक्षालयेत् नापि रञ्जयेत् तथा [नापि] बाकुशिकतया धौतरक्तानि धारयेत्, तथाभूतानि न गृह्णीयात्, तथाभूताधौतारक्तवस्त्रधारी च ग्रामान्तरं गच्छन् 'अपलिउंचमाणे'त्ति अगोपयन् सुखेनैव गच्छेद्, यतोऽसौ अवमचेलिक:-असारवस्त्रधारी । एतत्तस्य भिक्षोर्वस्त्रधारिणः सामञ्यं - संपूर्णो भिक्षुभावः यदेवंभूतवस्त्रधारणम्, एतच्च सूत्रं जिनकल्पिकापेक्षं, वस्त्रधारित्वविशेषणाद् गच्छान्तर्गतेऽपि चाऽविरुद्धम् । 'से' इत्यादिसूत्रं पिण्डैषणावन्नेयं, नवरं तत्र सर्वमुपधिम्, अत्र तु सर्वं चीवरमादायेति विशेषः ।। १४९ ।।
॥ १७४।। १ग्रामान्तरे - बृ।२ धारी वा - पा। ३ऽपि वाऽवि-पा. ।