________________
।। २/१/५/१॥
एतं खलु तस्स भिक्खुस्स वा २ सामग्गियं जं सव्वटेहिं सहितेहिं सदा जएजासि त्ति बेमि ॥ (सू.१४८) ॥ श्रीआचाराङ्ग 98
॥श्रीवस्त्रेषणाध्ययनस्य प्रथमोद्देशकः समाप्तः॥ प्रदीपिका ॥ स भिक्षुरव्यवहितायां भूमौ वस्त्रं नातापयेत् ।
स भिक्षुर्यद्यभिकाङ्क्षद्वस्त्रमातापयितुं ततः स्थूणादौ चलाचले स्थूणादिवस्त्रपतनभयानातापयेत्, तत्र गिहेलुकः- उम्बरः, 'उसुयालं' उदूखलं, कामजलं-स्नानपीठम् ।
स भिक्षुर्भित्तिशिलादौ पतनादिभयाद्वस्त्रं नातापयेत् । स भिक्षुः स्कन्धमञ्चकप्रासादादावन्तरिक्षजाते वस्त्रं पतनादिभयादेव नातापयेत् ।
यथा चातापयेत्तथाह-'से तमायाए'त्ति स भिक्षुस्तद्वस्त्रमादाय स्थण्डिलादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणादिना तत आतापनादिकं कुर्यादिति। एतत्तस्य भिक्षोः सामग्यमिति ।। १४८ ॥
॥श्रीवस्त्रैषणाध्ययनस्य प्रथमोद्देशकप्रदीपिका समाप्ता।
॥१७३॥