________________
४४॥२/१/५/१
R ततोऽहं वस्त्रादिकं दास्यामि, इत्येवं तस्य न श्रृणुयात्, शेषं सुगमं, यावदिदानीमेव ददस्वेति । ॥ श्रीआचाराङ्ग 98 एवं वदन्तं साधु परो ब्रयाद्, यथा-अनुगच्छ तावत्पुनः स्तोकवेलायां समागताय दास्यामि, इत्येतदपि न प्रतिश्रृणुयाद्, वदेच्चेदानीमेव प्रदीपिका ॥ ददस्व ।
___ तमेवं पुनरपि वदन्तं साधुं परो-गृहस्थो नेताऽपरं भगिन्यादिकमाहूय वदेद् - आनयैतद् वस्त्रं, येन श्रमणाय दीयते, वयं पुनरात्मार्थं 9 भूतोपमर्दैनापरं करिष्याम इति, एतत्प्रकारं वस्त्रं पश्चात्कर्मभयाल्लाभे सति न प्रतिगृह्णीयात् ।
। स्यात्पर एवं वदेद्, यथा-स्नानादिना सुगन्धिद्रव्येणाघर्षणादिकां क्रियां कृत्वा दास्यामि, तदेतन्निशम्य प्रतिषेधः विदध्यात्, अथ प्रतिषिद्धोऽप्येवं कुर्यात् ततो न प्रतिगृह्णीयात् ।
उदकधावनसूत्रं सुगमम्। स परो वदेद्याचितः सन् यथा कन्दादीनि वस्त्रादपनीय दास्यामीति, अत्रापि निषेधादि पूर्ववत् ।
स्यात् परो याचितः सन् कदाचिद्वस्त्रं निसृजेत् - दद्यात्, तं च ददमानमेवं ब्रूयाद्, यथा-त्वदीयमेवाहं वस्त्रमन्तोपान्तेन प्रत्युपेक्षितं 8.8 गृह्णीयाद्, यतः केवली ब्रूयात् - कर्मोपादानमेतत्, किमिति ? यतस्तत्र किञ्चित्कुण्डलादिकमाभरणजातं बद्धं भवेत् सचित्तं वा किञ्चिद् 88 8 भवेत्, अतः साधूनां पूर्वोपदिष्टमेतत्प्रतिज्ञादिकं यद्वस्त्रं प्रत्युपेक्ष्य गृह्णीयात् ।। १४६ ।।
१न परिगृह्णी-पा।
॥१६९॥