SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ 62 स- परो नौगतस्तत्स्थं साधुमुद्दिश्यापरमेवं ब्रूयात्, तद्यथा आयुष्मन् ! अयमत्र श्रमणो भाण्डवन्निश्चेष्टत्वाद् गुरुभाण्डेन वोपकरणेन गुरुस्तदेनं स्वबाहुग्राहं नाव उदके' प्रक्षिपत यूयमित्येवंप्रकारं शब्दं श्रुत्वा तथाऽन्यतो वा कुतश्चिन्निशम्य अवगम्य स साधुर्गच्छगतो. गच्छनिर्गतो वाऽनेन चीवरधारिणैतद्विधेयं क्षिप्रमेव चीवराण्यसाराणि गुरुत्वान्निर्वाहयितुमशक्यानि च उद्वेष्टयेत् पृथक् कुर्यात्, तद्विपरीतानि निर्वेष्टयेत् सुबद्धानि कुर्यात्, 'उप्फेसं वत्ति शिरोवेष्टनं वा कुर्याद् येन संवृतोपकरणो निर्व्याकुलत्वात् सुखेनैव जलं तरति, तांश्च धर्मदेशनयाऽनुकूलयेत् । 'अह पुण एवं जाणेज्जा' इत्यादि सुगमम् ॥ १२१ ॥ साम्प्रतमुदके प्लवमानस्य विधिमाह सेभिक्खू वा २ उदगंसि पवमाणे णो हत्थेण हत्थं पादेण पादं कारण कार्य आसादेज्जा से अणासादए अणासायमाणे ततो संजयामेव उदगंसि पवेज्जा । सेभिक्खू वा २ उदगंसि पवमाणे णो उम्मुग्ग- णिमुग्गियं करेज्जा, मा मेयं उदयं कण्णेसु वा अच्छीसु वा णक्कंसि वा मुहंसि वा परियावज्जेज्जा, ततो संजयामेव उदगंसि पवेज्जा । सेभिक्खू वा २ उदसि पवमाणे दोब्बलियं पाउणेज्जा, खिप्पामेव उवधिं विगिंचेज्ज वा विसोहेज्ज वा, णो चेव णं ११ उदकम् पा. । ॥२/१/३/२॥ ॥ १२९ ॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy