________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
जाव चिंताए । सेवं णच्चा तहप्पगारं गामं वा णगरं वा जाव रायहाणिं वा णो वासावासं उवल्लिएज्जा ॥
भिक्खू वा २ से ज्जं पुण जाणेज्जा गामं वा जाव रायहाणिं वा, इमंसि खलु गामंसि वा जाव रायहाणिंसि वा महती विहारभूमी, महती वियारभूमी, सुलभे जत्थ पीढ - फलग - सेज्जा- संथारए, सुलभे फासुए उंछे अहेसणिज्जे, णो जत्थ बहवे समण जाव उवागमिस्संति य, अप्पाण्णा वित्ती, पन्नस्स निक्खमणपवेसाए जाव नच्चाए (चिंताए), सेवं नच्चा तहप्पगारं गामं वा जाव रायहाणिं वा ततो संजयामेव वासावासं उवल्लिएज्जा ।। (सू. ११२)
स भिक्षुर्यत्पुनरेवं राजधान्यादिकं जानीयात्, तद्यथा अस्मिन् ग्रामे यावद् राजधान्यां वा न विद्यते महती विहारभूमिः - स्वाध्यायभूमिः, विचारभूमिः- बहिर्गमनभूमिः, नैवात्र सुलभानि पीठफलकशय्यासंस्तारकादीनि, न सुलभः प्रासुकः पिण्डपातः, 'उंछे' इत्येषणीयः, एतदेव दर्शयति - 'अहे सणिज्जे' त्ति योऽसावुद्गमादिदोषरहितः स एषणीयो भवति तथाभूतो दुर्लभः, यत्र च ग्रामादौ बहवः श्रमणबाह्मणातिथिकृपणवणीमगादय उपागता अपरे वोपागमिष्यन्ति, एवं च तत्रात्याकीर्णा वृत्तिः, वर्त्तनं [वृत्ति:,] सा भिक्षाटनस्वाध्यायबहिर्गमनकार्येषु जनसङ्कुलत्वादाकीर्णा भवति, ततश्च न प्राज्ञस्य तत्र निष्क्रमणप्रवेशौ यावच्चिन्तनादिकाः क्रिया निरुपद्रवाः संभवन्ति, स साधुरेवं ज्ञात्वा न तत्र वर्षाकालं विदध्यात् ॥
'से भिक्खु' त्ति व्यत्ययसूत्रं सुगमम् ॥ ११२ ॥
साम्प्रतं गतेऽपि वर्षाकाले यदा यथा च गन्तव्यं तदधिकृत्याह११ चोपाग बृ.।
_ ॥ २/१/३/१ ॥
।। १२० ।।