SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ ॥ श्रीशय्यैषणाध्ययनं द्वितीयं समाप्तम् ।। सुगमं, यावत्तथापकारासु वसतिषु विद्यमानासु प्रतिगृहीततरमिति यैव काचिद्विषमसमादिका वसतिः संपन्ना तामेव समचित्तोऽधिवसेत् _॥ २/१/३/१ ॥ 1- न तत्र व्यलीकादिकं कुर्यात्, एतत्तस्य भिक्षोः सामग्र्यम् यत्सर्वार्थैः सहितः सदा यतेतेति ॥ ११० ॥ ।। इति श्रीबृहत्खरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालङ्कारश्रीजिनहंससूरिविरचितायां श्रीआचाराङ्गप्रदीपिकायां द्वितीयश्रुतस्कन्धे प्रथमायां चूलिकायां द्वितीयं शय्यैषणाध्ययनं समाप्तम् ।। ॥ तृतीयं ईर्यैषणाख्यमध्ययनम् ॥ उक्तं द्वितीयमध्ययनं, साम्प्रतं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः - इहाद्येऽध्ययने पिण्डः प्रतिपादितः, गृहीतश्च पिण्डो वसती 'भोक्तव्य अतो द्वितीयेऽध्ययने वसतिः प्रतिपादिता, साम्प्रतं वसति पिण्डयोरन्वेषणार्थं गमनं विधेयं तत्र' यच्च यदा यथा विधेयं यदा यथा च न विधेयमित्येतत्प्रतिपादनार्थं तृतीयमध्ययनमीर्याख्यं प्रतिपाद्यते, अस्य चोद्देशार्थाधिकारमाह तत्र प्रथमोद्देशके वर्षाकालादौ स्थानं निर्गमश्च शरत्कालादौ प्रतिपाद्यते इत्यर्थाधिकारः १ द्वितीयोदेशके नावारुढस्य प्रक्षेपणं, जङ्घासंतारे च पानीये यतना नानाप्रकारा इत्याद्यर्थाधिकारः २ तृतीयोद्देशके उदकादिपृच्छायां जानताऽप्यदर्शनता [विधेया,] विधेय उपधावप्रतिबन्धश्च इत्ययमर्थाधिकारः ३ १ तच्च बृ. । 1990099 ॥ ११८ ॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy