________________
॥ श्रीआचारान प्रदीपिका ॥
से आगंतारेसु वा ४ अणुवीयी उवस्सयं जाएज्जा । जे तत्थ ईसरे जे तत्थ समाधिट्ठाए ते उवस्सयं अणुण्णवेज्जा - कामं खलु आउसो ! अहालंदं अहापरिण्णातं वसिसामो, जाव आउसंतो, जाव आउसंतस्स उवस्सए, जाव साहम्मिया, इताव उवस्सयं गिहिस्सामो, तेण परं विहरिस्सामो ।। (सू. ८९)
भिक्षुरागन्तागारादीनि गृहाणि पूर्वोक्तानि तेषु प्रविश्यानुविचिन्त्य च किम्भूतोऽयं प्रतिश्रयः ? कश्चात्रेश्वरः ? इत्येवं पर्यालोच्य च प्रतिश्रयं याचेत, यस्तत्र ईश्वरः - गृहस्वामी यो वा तत्र समधिष्ठाता प्रभुनियुक्तस्तानुपाश्रयमनुज्ञापयेत्, तद्यथा कामं तवेच्छया आयुष्मन् ! त्वया यथापरिज्ञातं प्रतिश्रयं कालतो भूभागतश्च तथैवाधिवत्स्यामः, एवमुक्तः सन् कदाचिद्गृहस्थ एवं ब्रूयाद् - यथा कियत्कालं भवतामिहावस्थानं ? इत्येवं गृहस्थेन पृष्टः साधुरेवं ब्रूयाद् - यथा कारणमन्तरेण ऋतुबद्धे मासमेकं वर्षासु चतुरो मासानवस्थानं, इत्येवमुक्तः कदाचित्परो ब्रूयात् - नैतावन्तं कालं ममात्रावस्थानं वसतिर्वा, तत्र साधुस्तथाभूतकारणसद्भावे एवं ब्रूयाद्- यावत्कालमहा आसते यावद्वा भवत उपाश्रयस्तावत्कालमेवोपाश्रयं गृहीष्यामः, साधुप्रमाणप्रश्ने चोत्तरं दद्याद् यथा समुद्रसंस्थानीयाः सूरयो, नास्ति परिमाणं, यतस्तत्र कार्यार्थिनः केचनागच्छन्त्यपरे कृतकार्या गच्छन्त्यतो यावन्तः साधर्मिकाः समागमिष्यन्ति तावतामयमाश्रयः, साधुपरिमाणं न कथनीयमिति भावार्थः ।। ८९ ।।
सेभिक्खू वा २ जस्सुवस्सए संवसेज्जा तस्स पुव्वामेव णामगोत्तं जाणेज्जा, तओ पच्छा तस्स गिहे णिमंतेमाणस्स वा ) अणिमंतेमाणस्स वा असणं वा ४ अफासुयं जाव णो पडिगाहेज्जा ।। (सू. ९०)
१ सः बृ. ।
॥ २/१/२/३ ॥
॥ १०७ ॥