________________
॥ श्रीआचाराङ्ग प्रदीपिका ॥
निशीथिकारताच भिक्खु'त्ति तत्रमा स्थानादि विधेयं मन
शुद्धः प्रतिश्रयो दुरापः, शुद्धे च प्रतिश्रये साधुना स्थानादि विधेयं, मूलोत्तरगुणशुद्धावाप्तावपि स्वाध्यायादिभूमीसमन्वितो विविक्तो दुराप इति दर्शयति ‘से य भिक्खु'त्ति तत्र च भिक्षवः चर्यारताः निरोधासहिष्णुत्वाच्चङ्क्रमणशीलाः, तथा स्थानरताः कायोत्सर्गकारिणः ], मह निशीथिकारताः स्वाध्यायध्यायिनः, शय्या सर्वाङ्गिकी, संस्तारकः अर्धतृतीयहस्तप्रमाणः, तत्र केचिद्रताः ग्लानादिभावात्, तथा लब्धे
१४ ॥२/१/२ पिण्डपाते ग्रासैषणारतास्तदेवं सन्ति-भवन्ति केचन भिक्षवः एवमाख्यायिनः यथाऽवस्थितवसतिगुणदोषारव्यायिनः ‘उज्जुकडा' ऋजवो नियागः संयमो मोक्षो वा तं प्रतिपन्नाः, अमायाविनः, एवंविशिष्टाः साधव व्याख्याताः - प्रतिपादिताः, तदेवं वसतिगुणदोषानाख्याय गतेषु तेषु तैश्च श्रावकैरेवम्भूतैषणीयवसत्यभावे साध्वर्थमादेरारभ्य वसतिः कृता पूर्वकृता वा छादनादिना, संस्कृता भवेत्, पुनश्च तेष्वन्येषु वा साधुषु समागतेषु सन्ति-विद्यन्ते तथाभूताः केचन गृहस्थाः य एवम्भूतां छलनां विदध्युः, तद्यथा ‘पाहुडिया' इति प्राभुतिकेव प्रातिका दानार्थं कल्पिता वसतिरिह गृह्यते, सा च तैर्गृहस्थैः उत्क्षिप्तपूर्वा तेषामादौ दर्शिता यथाऽस्यां वसत यूयमिति, निक्षिप्तपूर्वा पूर्वमेवास्माभिरात्मकृते निष्पादिता, 'परिभाइयपुव्व'त्ति पूर्वमेवास्माभिरियं भ्रातृव्यादेः परिकल्पितेत्येवंभूता भवेत्, तथाऽन्यैरपीयं परिभुक्तपूर्वा, तथा पूर्वमेवास्माभिः [इय] परित्यक्ता, यदि च भगवतां नोपयुज्यते ततो वयमेनामपनेष्यामः, इत्येवमादिका छलना साधुना सम्यग् विज्ञाय परिहर्त्तव्या, ननु किमेवं छलनासंभवेऽपि यथाऽवस्थितवसतिगुणदोषादिकं गृहस्थेन पृष्टः साधुर्व्याकुर्वन् - कथयन् सम्यगेव व्याकरोति ? यदिवैवं व्याकुर्वन् सम्यग् व्याकर्ता भवति ? आचार्य आह-हन्त इति शिष्यामन्त्रण सम्यगेव व्याकर्ता भवति ॥ ८७ ॥ अथ तथाविधकार्यवशाच्चरकपरिव्राजकादिभिः [सह] संवासे विधिमाह
॥१०५॥ १मन्त्रणे - बृ.।