SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीआचाराङ्ग प्रदीपिका ॥ न सुष्ठु निशान्तः- श्रुतो भवति, साधूनामेवंभूतः प्रतिश्रयः कल्पते नैवंभूत इत्येवं न ज्ञातं [ भवति ], प्रतिश्रयदानफलं च स्वर्गादिकं तैः कुतश्चिदवगतं, तच्छ्रद्दधानैः प्रतीयमानै रोचयद्भिः अगारिभिः गृहस्थैः बहून् श्रमणादीनुद्दिश्य तत्रारामादौ यानशालादीनि स्वार्थं कुर्वद्भिः श्रमणाद्यवकाशार्थं 'चेतिताई' महान्ति कृतानि भवन्ति, तानि चागाराणि स्वनामग्राहं दर्शयति, तद्यथा-आदेशनानि-लोहकारादिशालाः, आयतनानि-देवकुलपार्श्वोपवरकाः, देवकुलानि प्रतीतानि, सभा:- चातुर्वेधादिशालाः, प्रपाः- उदकदानस्थानानि, पण्यगृहाणि - पण्यापणाः, पण्यशालाः- घङ्घशालाः, यानगृहाणि यत्र यानानि तिष्ठन्ति, यानशाला: यत्र यानानि निष्पाद्यन्ते, सुधाकर्मान्तानि यत्र सुधापरिकर्म क्रियते, एवं दर्भवर्ध्रवल्वजाङ्गारकाष्ठक म[ काष्ठ] गृहाणि' द्रष्टव्यानि श्मशानगृहं प्रतीतं, [शून्यागारं विविक्तगृह, शान्तिकर्मगृहं यत्र शान्तिकर्म क्रियते, गिरिगृहं पर्वतोपरिगृहं, कन्दरं गिरिगुहा संस्कृता, शैलोपस्थापनं - पाषाणमण्डपः, तदेवम्भूतानि गृहाणि तैश्चरकब्राह्मणादिभिरभिक्रान्तानि पूर्वं पश्चाद् भगवन्तः - साधवः अवपतन्ति-अवतरन्ति, इयमायुष्मन् ! विनेयामन्त्रणम्, अभिक्रान्तक्रिया वसतिर्भवति, अल्पदोषा चेयम् ३ ॥ ८० ॥ इह खलु पाईणं वा ४ जाव तं रोयमाणेहिं बहवे समण- माहण अतिहि किवण वणीमए समुद्दिस्स तत्थ २ अगारीहिं अगाराई चेतिताई भवंति, तं जहा आएसणाणि वा जाव गिहाणि वा, जे भयंतारो तहप्पगाराई आएसणाणि वा जाव गिहाणि वा तेहिं अणोवतमाणेहिं ओवयंति अयमाउसो ! अणभिक्कंतकिरिया या वि भवति ४ ।। (सू. ८१) सुगमं, नवरं चरकादिभिरनासेवितपूर्वा अनभिक्रान्तक्रिया वसतिर्भवति, इयञ्चानभिक्रान्तत्वादेवाकल्पनीयेति ४ ॥ ८१ ॥ १ वल्कनाङ्गा पा. । ॥२/१/२/२ ॥ ॥ ९९ ॥
SR No.600361
Book TitleAcharang Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorJinhansasuri
PublisherJinshasan Aradhana Trust
Publication Year1996
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy